________________
नन्दिसूत्रम्
॥ ८० ॥
तिष्टतीति भवस्थः तस्य केवलज्ञानं भवस्थकेवलज्ञानं, चशब्दः स्वगतानेकमेदसूचकः, तथा पिधू संराद्धौ सिध्यति स्म सिद्धः, यो येन गुणेन परिनिष्ठितो न पुनः साधनीयः स सिद्धः उच्यते, यथा सिद्ध ओदनः, स च 'कम्मे सिप्पे० इत्यादि कर्मसिद्धादिभेदात् अनेकविधः, अत्र कर्मक्षयसिद्धेन अधिकारो अन्यस्य केवलज्ञानासंभवात्, अथवा सितं बद्धं धमातं भस्मीकृतं अष्टप्रकारं कर्म न स सिद्धः पृषोदरादय इति रूपसिद्धिः सकलकर्मविनिर्मुक्तः, मुक्तावस्थां उपागत इत्यर्थः । तस्य केवलज्ञानं [ सिद्ध केवलज्ञानं ] अत्रापि शब्दः स्वगतानेकभेदसूचकः अथ किं तत् भवस्थ केवलज्ञानं ? भवस्थ केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा सयोगि भवस्थ केवलज्ञानं च अयोगिभवस्य केवलज्ञानं च तत्र योजनं योगो व्यापारः, उक्तं च ' कायवाङ्मनः कर्म योगः' ततः सह योगेन वर्तते ये ते सयोगाः मनोवाक्कायास्ते यथासंभवं अस्य विद्यते इति सयोगी, सयोगी चासौ भवस्ra सयोगिभवस्थः तस्य केवलज्ञानं सयोगिभवस्थ केवलज्ञानं, स योगः अस्य विद्यते इति योगी न योगी अयोगी, अयोगी चासौ भवस्थश्व अयोगि भवस्थः, शैलेश्वस्थां उपागत इर्थः, तस्य केवलज्ञानं - अयोगिभवस्थ केवलज्ञानं ॥
से किं तं सजोगि भवत्थ केवलनाणं ?, सयोगि भवत्थकेवलनाणं दुविहं पण्णत्तं तं जहा - पढमसमयसयोगिभवत्थकेवलनाणं च अपढमसमयसजोगि भवत्थ के वलनाणं च अहवा चरमसमयसयोगि भवत्थके बलनाणं च अचरमसमय सजोगि भवत्थकेवलनाणं च, से तं सजोगि भवत्थकेवलनाणं । से किं तं अयोगि भवत्थकेवलनाणं ? अयोगिभवत्थ केवल नाणं- दुविहं पण्णत्तं तं जहा- पढमसमयअयोगि भवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च अहवा चरमसमयअजोगि भवत्थकेवलनाणं च अचरमसमयअजोगि भवत्थकेवलनाणं च, सेतं अजोगि भवत्थ केवलनाणं ।
अवचूरिसमलंकृतम्
॥ ८० ॥