SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ति समलंकृतम् ॥७७॥ 4 णात् स्वाथे कप्रत्यय एवं पूर्वेष्वपि पदेषु यथायोगं व्युत्पत्तिद्रष्टव्या, वितिमिरतरकान्-सर्वथा भ्रमरहितान् , अथवा अति-अधिकतरकान् विपुलतरकानिति द्वावपि शब्दावेकार्थों, विशुद्धतरकान् वितिमिरतरकानेतौ द्वावप्येकार्थों, नानादेशजा हि विनेया भवन्ति ततः कोऽपि कस्यापि प्रसिद्धो भवतीति तेषामनुग्रहार्थमेकार्थिकपदोपन्यासः, तथा क्षेत्रतः,णमिति वाक्यालंकारे,ऋजुमतिरवडो यावत् अस्याः रत्नप्रभायाः पृथिव्या उपरितनाधस्तनान् क्षुल्लकातरान् , अथ किमिदं क्षुल्लकातर इति ? उच्यते, इह लोकाकाशप्रदेशा उपरितनाधस्तनप्रदेशरहिततया विवक्षिता मण्डकाकारतया व्यवस्थिताः प्रतरमित्युच्यते, तत्र तिर्यग्लोकस्योद्धोधोपेक्षयाटादशयोजनशतप्रमाणस्य मध्यभागे द्वौ सर्वलधू क्षुल्लकप्रतरौ, तयोर्मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुमध्येऽटप्रादेशिको रुचकस्तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव च रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः, एतदेव च सकलतिर्यगलोकमध्यं, तौ च द्वौ सर्वलघु प्रतरौ अङ्गलासयभागवाहल्याबलोकसंवर्तितौ रज्जुप्रमाणी, तत एतयोरुपर्यन्येऽन्ये प्रतराःतिर्यगङ्गलासंख्येयभागवृद्ध्या वर्धमानास्तावद्रष्टव्याः, यावर्द्धलोकमध्यं, तत्र पंचरज्जुप्रमाणः प्रतरः, तत उपर्यन्ये प्रतराः, तिर्यगंगुलासंख्येयभागहान्या हीयमानास्तावदवसेया यावल्लोकान्ते रज्जुप्रमाणः प्रतरः, इह ऊर्द्धलोकमध्यवर्तिनं सर्वोत्कृष्टं पंचरज्जुप्रमाणं प्रतरमवधीकृत्यान्ये उपरितना अधस्तनाश्च क्रमेण हीयमानाः सर्वेऽपि प्रतराः क्षुल्लकप्रतरा इति व्यवहियन्ते यावलोकान्ते तिर्यग्लोके च रज्जुप्रमाणः प्रतर इति, तथा तिर्यग्लोकमध्यवर्तिसर्वलघुक्षुल्लकप्रतरस्थाधस्तिर्यगंगुलासंख्येयभागवृद्ध्या वर्धमाना वर्धमानाः प्रतराः तावद्वक्तव्याः यावदधोलोकान्ते सर्वोत्कृष्टसप्तरज्जु १-मण्डका(ला?)कार तया-गोलाकारतयेत्यर्थः । २-प्रतरशब्दो हि पुनपुंलिङ्गवति ज्ञायते हारिभद्रीयनंदीवृत्तौ उभयलिङ्गप्रयोगदर्शनात् । ॥७ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy