SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ नन्दिवत्रम् ॥ ७६ ॥ णमिति वाक्यालंकारे, ऋजुमतिः अनन्तान्तप्रदेशिकान् अनन्तपरमाण्वात्मकान् स्कंधान विशिष्टैकपरिणामपरिणतान् अर्धतृतीयद्वीपसमुद्रान्तर्वर्ति पर्याप्त संज्ञिपञ्चेन्द्रियैः मनस्त्वेन परिणामितान् पुद्गलसमूहानित्यर्थः । जानाति साक्षात्कारेणावगच्छति, पासइत्ति इह मनस्त्वपरिणतैः स्कन्धैः आलोचितं बाह्यमर्थं घटादिलक्षणं साक्षात् अध्यक्षतो मनःपर्यायज्ञानी न जानाति किन्तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तितो अनुमानतः इत्थं चैतत् अङ्गीकर्तव्यं यतो मूर्तद्रव्यालंबनमेव इदं मनःपर्यायज्ञानमिष्यते, मंतारस्तु अमूर्तमपि धर्मास्तिकायादिकं मन्यन्ते, ततः अनुमानत एव चिन्तितमर्थमवबुध्यन्ते, नान्यथा इति प्रतिपत्तव्यं, ततः तमधिकृत्य पश्यति इत्युच्यते, तत्र मनोनिमित्तस्य अचक्षुर्दर्शनस्य संभवात्, अथवा सामान्यतः एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत् तत् द्रव्याद्यपेक्षया वैचित्र्यसंभवात् अनेकविधः उपयोगः संभवति, यथात्रैव ऋजुमतिविपुलमतिरूपः, ततो विशिष्टतर मनोद्रव्याकारपरिच्छेदापेक्षया जानाति इत्युच्यते, सामान्यरूपं मनोद्रव्याकार परिच्छेदापेक्षया तु पश्यतीति, सामान्यतः एकरूपेऽपि क्षयोपशमलंमे अपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसंभवात् द्विविधोपयोगो भवतीति तदेवं विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतः दर्शनरूप उक्तः, परमार्थतः पुनः सोऽपि ज्ञानमेव, यतः सामान्यरूपमपि मनोद्रव्याकारं प्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनं, अत एव सूत्रेऽपि दर्शनं चतुर्विधमेवोक्तं, न पंचविधमपि, मनःपर्यायदर्शनस्य परमार्थतोऽसंभवादिति, तथा तानेव मनस्त्वेन परिणामितान् स्कंधान् विपुलमतिः, अति अधिकतरार्ध तृतीयाङ्गुलमा णभूमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान् विपुलतरकान् प्रभूततरकान् तथा विशुद्धतरान् निर्मलतरान् ऋजुमत्यपेक्षयाऽतीव स्फुटतरप्रकाशानित्यर्थः, वितिमिरतरकान्-विगतं तिमिरं तिमिरसंपाद्यो भ्रमो येषु ते वितिमिराः ततो 'द्वयोः प्रकृष्टे तरपू' इति तरपूप्रत्ययस्ततः प्राकृतलक्ष अवचूरिसमलंकृतम् ॥ ७६ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy