SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥७४॥ दिद्विस्सावि जीवाइपयत्थाणं उवरिं न य रुई नो वि निंदत्ति तथा संयताः सकलचारित्रिणः, असंयताः अविरतसम्यग्दृष्टयः, संयता-16 संयता देशविरतिमन्तः, तथाऽपि प्रमाद्यति स्म मोहनीयादिकर्मोदयप्रभावतः संज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्म इति प्रमत्ताः, ते च प्रायो गच्छवासिनः, तेषां क्वचिदनुपयोगसंभवात् , तद्विपरीताः अप्रमत्ताः, ते च प्रायो जिनकल्पिकपरिहारविशुद्धिकाः यथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसंभवात् , [ इह ] तु ये गच्छवासिनः तन्निर्गता वा प्रमादरहि-16 तास्ते अप्रमत्ता द्रष्टव्याः, अथवा ऋद्धिः आमोषध्यादिलक्षणा[तां]प्राप्ताः ऋद्धिप्राप्ताः, तद्विपरीताः अऋ(नृ?)द्धिप्राप्ताः, तत्र मनःपर्या-1 यज्ञानं ऋद्धिप्राप्तानां अप्रमत्तसंयतानां उत्पद्यमानं द्विधा उत्पद्यते, तद्यथा ऋजुमतिश्च विपुलमतिश्च तत्र मननं मतिः संवेदनमित्यर्थः, ऋज्वी सामान्यग्राहिणी मतिः ऋर्जुमतिः घटोऽनेन चिन्तित इति सामान्याकाराध्यवसायनिवन्धनभृता कतिपयपर्यायविशिष्टमनोद्रव्यहापरिच्छित्तिरित्यर्थः, चशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसूचकः, तथा विपुला विशेषग्राहिणी मतिः विपुलमतिः घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकः अद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभृता प्रभृतविशेषविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, चशब्दः पूर्ववत् । -प्राप्त प्रमत्तसंयतानामुत्पद्यत इत्युक्ते तद्भिन्नानां संमूच्छिमादिविशिष्टानां व्यावृत्तिसंभवे अधिकसूत्रसूत्रणं व्यर्थमिति चेत्, इह च सर्वत्रैव मनुष्यादिषु विधाने सत्यर्थतो गम्यमानस्याऽपि विपक्षनिषेधस्वाभिधानमव्युत्पन्न विनेयजनानुग्रहार्थमदुष्टैवेति तथा हि-सर्वपार्षद हीई शास्त्रं त्रिविधाश्च विनेया भवन्ति, तद्यथाउद्घाटितज्ञानाः, मध्यमबुद्धयः, प्रपंचधियश्चेत्यलं विस्तरेणेति हरिभद्रसूरयः । २-ऋजुवं विपुलत्वं च मूर्तधौं, अमूर्ते ज्ञाने तदयोगात् , अत आह-सामान्यग्राहिणीत्यादि, अत्र सामान्यशब्दः स्तोकाभिधायी, मनःपर्यायदर्शनानुक्तत्वात , | तथा च विशेषमेकं द्वौ त्रीन् वा गृह्णन्ती ऋजुमतिः प्रवर्तते, ज्ञानात्मकतयैव तदुत्पत्तेरिति । । ।। ७४॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy