SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् । अवचरिसमलंकृतम् गोयमा ! मणुस्साणं उप्पज्जइ नो अमणुस्साणं जइ मणुस्साणं किं समुच्छिममणुस्साणं गम्भवकंतियमणु- स्सिाणं? मनःपर्यायज्ञानं पानिरूपितशब्दार्थः, णं इति वाक्यालंकारे, भदंत इति गुर्वामंत्रणे, किं इति परप्रश्ने, मनुष्याणां उत्पद्यते इति प्रकटार्थ, अमनुष्याणां उत्पद्यते इति, अमनुष्या-देवादयस्तेषां उत्पद्यते, एवं भगवतो गौतमेन प्रश्ने कृते सति परमाहत्वमहिम्ना विराजमानः त्रिलोकीपतिः भगवान् वर्धमानस्वामी निर्वचनमभिधत्ते। हे गौतम ! सूत्रे दीर्घत्वं 'सेर्लोपः संबोधने ह्रखो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयं यथा भो वयस्सा! इत्यादौ, मनुष्याणां उत्पद्यते नामनुष्याणां तेषां विशिष्टचारित्रप्रतिपत्यभावात् , अत्राह ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती संभिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव ततः किमर्थ पृच्छति, उच्यते, 15 शिष्यसंप्रत्ययार्थ तथा हि तमर्थ स्खशिष्येभ्यः प्ररूप्य तेषां संप्रत्ययार्थ तत् समक्षं भूयोऽपि भगवंतं पृच्छति, अथवा इत्थं एव सूत्ररचनाकल्पस्ततो न कश्चित् दोष इति । पुनरपि गौतम आह, यदि मनुष्याणां उत्पद्यते तर्हि किं संमूर्छिममनुष्याणां उत्पद्यते, किंवा गर्भव्युक्रांतिकमनुष्याणां उत्पद्यते ? तत्र 'मूछी मोहसमुच्छ्ययोः, संमूच्छेनं संमूर्छा भावे घञ् प्रत्ययः, तेन निवृत्ताः संमूर्छिमास्ते च बान्तादिसमुद्भवाः, तथा गर्भ -प्रज्ञापना सूत्र नु उच्चारेयिति पदमादि कृत्वा-चर्तुदशस्थानानि प्रदर्शितानि, तथाच 'उच्चारादिसमुद्भवाः' इत्येवं क्रमं त्यक्त्वात्र पंचमस्थानस्थ वान्तेविति पदमादि कृत्वा 'वान्तादिसमुद्भवा' इत्युत्क्रमेण कथमुक्तमिति चेत्, सत्यं, शास्ने पूर्वानुपूर्वीक्रमो यथा प्रदर्शितः तथा अनानुपूर्वीफ्रमोऽप्युक्तः तज्ज्ञापनाय तथोक्तिरिति ध्येयम् ।
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy