________________
मन्दिसूत्रम्
॥ ६७ ॥
कालतो अवधिज्ञानी जघन्येन आवलिकाया असंख्येयभागमुत्कर्षतो असंख्येया उत्सर्पिण्यऽवसर्पिणीः - असंख्येय उत्सपिण्यवसर्पिणीप्रमाणं अतीतमनागतं च कालं जानाति पश्यति । भावतः अवधिज्ञानी जघन्येन अनंतान् भावान्- पर्यायानाधारद्रव्य अनंतत्वात् न तु प्रतिद्रव्यं, प्रतिद्रव्यं संख्येयानां असंख्येयानां वा पर्यायाणां दर्शनात् । उक्तं च- एगं दव्वं पेच्छं धम वासवे तस्स । उक्को समसंखेज्जे संखेजे पेच्छई कोइ ॥ १ ॥ उत्कर्षतः अपि अनंतान् भावान् जानाति पश्यति । केवलं जघन्यपदात् उत्कृष्टपदं अनंतगुणं, 'सर्वभावानां सर्व पर्यायाणां अनंतभागं अनंतभागकल्पान् जानाति पश्यति । तत एवं अवधिज्ञानं द्रव्यादिभेदतः अपि अभिधाय सांप्रतं संग्रहगाथां आह
ओहि भवपचईओ गुणपचईओ य वण्णिओ एसो तस्स य बहु विगप्पा दव्वे खित्ते य काले य ॥ १ ॥ नेरइयदेवतित्थंकराय ओहिस्स बाहिरा हुंति । पासंति सव्वओ खलु सेसा देसेण पासति ॥ २ ॥ से त्तं ओहिनाणं ।
१' ननु ओहिस्स बाहिरा हुंति' इत्यनेनैव 'पासंति सव्वओ' इत्यस्यार्थस्य ज्ञानात् ' पश्यन्ति सर्वतः ' इत्यस्यानर्थंकरवं प्राप्तमिति चेत्, अवधिज्ञानस्यावाह्या भवन्ति इत्येतावन्मात्रोको ' सर्वतः पश्यन्ति ' इत्यस्यार्थस्याप्रतीयमानत्वात् सर्वाभ्यन्तराधिकाः सर्वतः पश्यन्त्येवेति नियमाभावात् । अथवा इदं सूत्रं नियताऽनियताव धिविषयकं ज्ञेयं तेन नारकदेवतीर्थपा एव अवघेरबाह्या भवन्ति अर्थात् नियमेन एषामवधिर्भवतीत्यर्थः तथा च संशयः स्यात् किं ते देशेन पश्यन्ति आहोस्वित् सर्वतः ? ततः आह' पासंति सम्बओ ' इति न कोऽपि शंकाबकाशः । न च तेषां नियतावधेः पूर्वगाथया प्रतिपादितत्वात् ' ओहिस्स बाहिरा ' इत्यस्या
अवचूरिसमलंकृतम्
॥ ६७ ॥