SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ न्दिसूत्रम् ॥ ६६ ॥ कार्ल जाण पास कोसे णं असंखिजाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ । भावओ णं ओहिनाणी जहन्ने णं अगते भावे जाणइ पासद्द । उक्को से णं वि अनंते भावे जाणइ पास सव्वभावाणमणत भागं भावे जाणइ पासह । तदवधिज्ञानं ' समासतः' संक्षेपेण चतुर्विधं चतुःप्रकारं प्रज्ञप्तं तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः 'ण' मिति वाक्यालंकारे, अवधिज्ञानी जघन्येनापि - भावप्रधानोऽयं निर्देश: सर्वजघन्यतयापि अनंतानि रूपद्रव्याणि जानाति तानि च तैजसभाषाप्रायोग्यवर्गणापांतरालवर्त्तीनि द्रष्टव्यानि उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्मानि जानाति पश्यति । तत्र ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्य परिच्छेदात्मकं, आह-आदौ दर्शनं ततो ज्ञानं इति चक्रमः, तत एनं क्रमं परित्यज्य किमर्थ प्रथमं जानाति इत्युक्तं १ उच्यते । इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्य उस्पद्यंते, अवधिः अपि लब्धिः उपवर्ण्यते, ततः स प्रथमं उत्पद्यमानो ज्ञानरूप एव उत्पद्यते न दर्शनरूपः, ततः क्रमेणोपयोग प्रवृत्तेः ज्ञानोपयोगानंतर दर्शनरूपोऽपि इति प्रथमतो ज्ञानं उक्तं पश्चात् दर्शनं, अथवा इह अध्ययने सम्यग्ज्ञानं प्ररूपयितुं उपक्रांत, यतोऽनुयोगप्रारंभेऽवश्यं मंगलाय ज्ञानपंचकरूपो भावनंदिः वक्तव्य इति तत्प्ररूपणार्थ इदं अध्ययनं आरब्धं, ततः सम्यग् ज्ञानं इह प्रधानं, न मिथ्याज्ञानं, तस्य मांगल्यहेतुत्वायोगात्, दर्शनं तु अवधिज्ञानविमंगसाधारणं इति तद् अप्रधानं, प्रधानानुयायी च लौकिकः लोकोत्तरश्च मार्गस्ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शनमिति । तथा क्षेत्रतः अवधिज्ञानी जघन्येन अंगुला संख्येयभागं उत्कर्षतः असंख्येयानि अलोके लोकप्रमाणानि चतुर्दशरज्यात्मकानि खंडानि जानाति पश्यति । अवचूरिसमलंकृतम् ॥ ६६ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy