________________
नदिसूत्रम् ॥ ६९ ॥
क्षेत्र वृद्धिः तस्यां सत्यां कालो भजनीयो विकल्पनीयः कदाचिद्वर्द्धते कदाचित् न, क्षेत्रं हि अत्यंत सूक्ष्मं, कालस्तु तदपेक्षया परिस्थूलः, ततो यदि प्रभूता क्षेत्र वृद्धिस्ततो वर्द्धते शेषकालं न इति, द्रव्यपर्यायौ तु नियमतो बर्द्धते । तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां, सूत्रे विभक्तिलोपः प्राकृतशैल्या, भजनीयावेव क्षेत्रकालौ, तुशब्द एवकारार्थः, स च भिन्नक्रमः । तथैव च योजितः, विकल्पञ्चायं कदाचित्तयोः वृद्धिः भवति कदाचित् न, यतो द्रव्यं क्षेत्रात् अपि सूक्ष्म, एकस्मिन्न| पि नमः प्रदेशे अनंतस्कंधावगाहनात्, द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनंतपर्याय संभवात् । ततो द्रव्यपर्यायवृद्धौ क्षेत्रकाला भजनीयावेव भवतः, द्रव्ये च वर्द्धमाने पर्याया नियमतो वर्द्धते प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिना परिच्छेदसंभवात् । पर्याये तु वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधि वृद्धिसंभवात् । अत्र आइ-ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबंधिनोः क्षेत्रकालयोः अंगुलावलिका संख्येय भागादिरूपयोः परस्परं समय प्रदेश संख्ययोः किं तुल्यत्वं उत हीनाधिकत्वं ? उच्यते, हीनाधिकत्वमावलिकाया असंख्येयभागे जघन्यावधिविषये यातः समयास्तदपेक्षया अंगुलस्य असंख्येयभागे जघन्यावधिविषये एव ये नमः प्रदेशाः ते असंख्येयगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसंख्येयगुणत्वं अवधिविषयस्य क्षेत्रस्य अवगंतव्यम् ॥ ७ ॥
अथ क्षेत्रस्य इत्थं कालादसंख्येयगुणता कथं अवसीयते १, उच्यते, सूत्रप्रामाण्यात्, तदेव सूत्रमुपदर्शयतिसुमो अ होइ कालो, तत्तो सुहुमयर हवइ खित्तं । अंगुलसेदिमित्ते, ओसप्पिणिओ असंखिल्ला ॥ ८ ॥ से त्तं वमाणयं ओहिनाणं ।
अवचूरिसमंलकृतम्
॥ ६२ ॥