________________
नन्दिसत्रमा
COC%ESCRECECAC%E
तदा स यथोक्तक्षेत्रपरिमाणं तं एव एक द्वीपं समुद्रं वा पश्यति, यदि पुनः असंख्येययोजनविस्तृते स्वयंभरमणादिके द्वीपे । समुद्रे वा संख्येयकालविषयोऽवधिः कस्यापि उत्पद्यते तदानीं स प्राग उक्तपरिमाणं तस्य द्वीपसमुद्रस्य वा एकदेशं पश्यति |5अवरिइहत्यमनुष्यवाह्यावधिरिव कश्चित् , तथा काले असंख्येये पल्योपमादिलक्षणे अवधेर्विषये सति तस्य एव असंख्येयकाल
समलंकृतम् परिच्छेदकस्य अवधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्रा'भाज्या' विकल्पनीया भवंति, कस्यचित् असंख्येयाः कस्यचित् संख्येयाः कस्यचिदेकदेश इत्यर्थः । यदा इहत्यि] मनुष्यस्य असंख्येयकालविषयोऽवधिः उत्पद्यते तदानीं असंख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनः बहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित्तिरश्वोऽसंख्येयकालविषयोऽवधिः उत्पद्यते तर्हि तस्य संख्येया द्वीपसमुद्रा:, अथवा यस्य मनुष्यस्यासंख्येयकालविषयो बाह्यद्वीपसमुद्रालंबनो बाह्योऽवधिः उत्पद्यते तस्य संख्येया द्वीपसमुद्राः, यदा पुनः स्वयंभूरमणे द्वीपे समुद्रे वा कस्यचित्तिस्श्वोऽवधिः असंख्येयकालविषयो जायते तदानीं तस्य स्वयंभू. रमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः । स्वयंभृरमणविषयमनुष्यबाह्यावधेर्वा तत् एकदेशो विषयः, क्षेत्रप्रमाण पुनः योजनापेक्षया सर्वत्रापि जंबुद्वीपादारभ्य असंख्येयद्वीपसमुद्रप्रमाणमत्रसेयं । तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च यथा क्षेत्रवृद्धिः तथा प्रतिपादितं ॥६॥
संप्रति द्रव्यक्षेत्रकालभावानां मध्ये यत् वृद्धौ यस्य वृद्धिः उपजायते । यस्य च न तत् अभिधित्सुराहकाले चउण्हवुड्डी, कालो भइअब्व खित्तवुड्डीए । वुड्डीए दव्वपज्जव, भइअव्व खित्त काला उ ॥७॥
काले ' इत्यादि, 'काले' अवधिगोचरे वर्धमाने ' चतुर्णा द्रव्यक्षेत्रकालभावानां वृद्धिः भवति । तथा क्षेत्रस्य वृद्धिः
CHARGONOMETROCIAL
॥६१॥