SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् | अवचूरिसमलंकृतम् MACHARCH पश्यति तहि क्षेत्रतो अंगुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति । उक्तं च "संखेज्जंगुलभागे आवलियाए वि मुणइ तइभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं ॥१॥ 'आवलियं मुणमाणो संपुग्नं खेत्तमंगुलपुहुत्तमिति, पृथक्त्वं द्विप्रभृति आ नवम्य इति । तथा 'हस्ते ' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'मुहूतांतः पश्यति' इत्यर्थः । तथा कालतो 'दिवसांतः' किंचित् ऊणं दिवसं पश्यन् , क्षेत्रतो 'गव्यूते 'गव्यतविषयो द्रष्टव्यः, तथा 'योजन' योजनमात्र क्षेत्रं पश्यन् कालतो दिवसपृथकत्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यति इत्यर्थः, तथा 'पक्षांतः' किंचिदूनं पक्षं पश्यन् क्षेत्रतः पंचविंशतियोजनानि पश्यति ।। 'भरहमि' इत्यादि 'भरते' सकलभरतप्रमाणे क्षेत्राऽवधौ कालतो अर्द्धमास उक्तः, भरतप्रमाण क्षेत्रं पश्यन् कालतोऽतीतं अनागतं च अर्द्धमासं पश्यति इत्यर्थः । एवं जंबुद्वीपविषयेऽवधौ साधिको मासःकालतो बोद्धच्या, तथा 'मनुष्यलोके मनुष्यलोकप्रमाणक्षेत्रविषयेऽवधौ ‘वर्ष' संवत्सरमतीतं अनागतं च पश्यति । तथा रुचकाख्ये रुचकाख्यवाह्यद्वीपप्रमाणक्षेत्रविषयो अवधिः वर्षपृथक्त्वं पश्यति । 'संखेजे 'त्यादि, संख्यायत इति संख्येयः, स च वर्षमात्रोऽपि भवति ततः तु शब्दो विशेषणार्थः । किं विशिनष्टि ? संख्येयकालो वर्षसहस्रात् परो वेदितव्यः, तस्मिन् संख्येये काले अवधिगोचरे सति क्षेत्रतस्तस्य एव अवधिः गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्राः ते अपि संख्यया भवंति, अपि शब्दात्महाने कोऽपि महत एकदेशोऽपि, किमुक्तं भवति ? । संख्येये काले अवधिना परिच्छिद्यमाने क्षेत्रं अपि अत्रत्यप्रज्ञापकापेक्षया, संख्येयद्वीप समुद्रपरिमाणं परिच्छेद्यं भवति । ततो यदि नामात्र त्यस्य अवधिः उत्पद्यते तर्हि जंबूद्वीपात् आरभ्य संख्येया द्वीपसमुद्राः तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा संख्येययोजनविस्तृते कस्यापि तिरश्चः संख्येयकालविषयोऽवधिः उत्पद्यते HIM६०॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy