________________
मन्दिसूत्रम्
॥ ५९ ॥
अंगुलमावलियाणं भागमसंखिल दोसु संखिज्जा । अंगुलमावलिअंतो आवलिआ अंगुलपुहुत्तं ॥ ३ ॥ हस्थंमि मुहत्तो, दिवसंतो गाउअम्मि बोद्धव्वो । जोयणदिवस पुहुत्तं, पक्खतो पन्नवीसाओ ॥ ४ ॥ भर हंमि अद्धमासो, जम्बूद्दीवंमि साहिओ मासो । वासं च मणुअलोए, वासपुहुत्तं च रुअगंमि ॥ ५ ॥ संखिमि उ काले, दीवसमुद्दाऽबि हुंति संखिजा । कालंमि अ संखेज्जा - दीवसमुद्दा उ भहअव्वा ॥ ६ ॥
अंगुलं इत्यादि, अंगुलं इह क्षेत्राधिकारात् प्रमाणांगुलं अभिगृह्यते । अन्ये तु आहुः - अवधिअधिकाराद् उत्सेधांगुलमिति, आवलिका - असंख्येयसमयात्मिका, अंगुलं चावलिका च अंगुलावलिके तयोः अंगुलावलिकयोः मागमसंख्येयमसंख्येयं पश्यति अवधिज्ञानी, इदमुक्तं भवति क्षेत्रतः अंगुला संख्येय भागमात्रं पश्यन् कालतः आवलिकाया असंख्येयं एव भागं अतीतमनागतं च पश्यति । आवलिकायाच असंख्येयं भागं पश्यन् क्षेत्र तो अंगुला संख्येयभागं पश्यति । एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्त्तव्या, क्षेत्रकालदर्शनं न उपचारेण द्रष्टव्यं न साक्षात् न खलु क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति । तयोः अमूर्त्तत्वात्, रूपिद्रव्यविषयश्च अवधिः, तदेतदुक्तं भवति-क्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायाः तान् पश्यति । उक्तं च-" तत्थेव य जे दवा तेसिं चिय जे हवंति पजाया । इय खेते कालंमि य जोएजा दवपजाए ॥ १ ॥ " एवं सर्वत्रापि भावनीयं क्रिया च गाथाचतुष्टये स्वयं एव योजनीया । तथा द्वयोः अंगुलावलिकयोः संख्येयौ भागौ पश्यति । अंगुलस्य संख्येयमागं पश्यन् आवलिकाया अपि संख्येयं एव भागं पश्यति इत्यर्थः । तथा ' अंगुलं ' अंगुलमात्रं क्षेत्रं पश्यन् ' आवलिकांत: ' किंचिदुनां आवलिकां पश्यति आवलिकां चेत्कालतः
अवचूरिसमलंकृतम्
॥ ५९ ॥