________________
मन्दिसूत्रम्
॥ ५८ ॥
सर्वबहवोऽनलजीवा भवंति । तेषां स्वबुद्ध्या षोढाऽवस्थानं परिकल्प्यते - एकैक क्षेत्र प्रदेशे एकैकजीवावगाहनया सर्वतः चतुरस्रोघन इति प्रथमं, [स] घनो जीवैः स्वावगाहनाभिः इति द्वितीयं । एवं प्रतरोऽपि द्विभेदः, श्रेणिः अपि द्विधा, तत्र आद्याः पंचप्रकारा अनादेशाः, तेषु क्षेत्रस्य अल्पीयस्तया प्राप्यमाणत्वात् षष्ठस्तु प्रकारः सूत्रादेशः उक्तं च-" एकेकागासपएसजीवरयणाए सावगाहे य । चउरंसं घण पयरं सेढी छट्टो सुयादेसी" तव असौ श्रेणिः स्वावगाहनासंस्थापित सकलानलजीवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यंतेन भ्राम्यते सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्रविभागान् अलोके व्याप्नोति । एतावत् क्षेत्रं अवधेः उत्कृष्टं इति इदं च सामर्थ्य मात्रं उपवर्ण्यते । एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, पावता तत् न विद्यते, अलोके रूपिद्रव्याणां असंभवात्, रूपिद्रव्यविषयश्च अवधिः, केवलमयं विशेषो यावदद्यापि परिपूर्ण अपि लोकं पश्यति तावदिह स्कंधान् एव पश्यति । यदा पुनः अलोके प्रसरमवधिः अधिरोहति तदा यथा यथा अभिवृद्धिं आसादयति तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कंधान पश्यति यावदंते परमाणु अपि । उक्तं च" सामत्थमेतमुतं दट्ठवं जइ हवेज पेच्छेजा । न उ तं तत्थस्थि जओ सो रूविनियंत्रणो भणिओ ।। १ ।। तो पुण बाहि लोगत्थं चैव पास दवं । सुहुमयरं सुदुमयरं परमोही जान परमाणूं ॥ २ ॥ " परमावधिकलितश्च नियमात् अंतर्मुहूर्तमात्रेण केवल लोकलक्ष्मी मालिङ्गति, उक्तं च, 'परमोहिना ठिओ केवल मंतो मुहुत्त मे तेणं' एवं तावत् जघन्यं उत्कृष्टं च अवधिक्षेत्रं उक्तम्, संप्रति मध्यमं प्रतिपिपादयिषु । एतावत् क्षेत्रोपलं मे एतावत् कालोपलंभः एतावत्कालोपलं मे च एतावत् क्षेत्रोपलंभ इत्यस्यार्थस्य प्रकटनाथे गाथाचतुष्टयं आह
अवचूरिसमलंकृतम्
॥ ५८ ॥