SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥ ५५ ॥ स्थानेषु वर्धमानचारित्रस्य, एतेन देशविस्तसर्वविरतयोर्वर्द्धमानकमवधिमभिधत्ते वर्द्धमानकथावधिरुत्तरोत्तरं विशुद्धिमा - सादयतो भवति नान्यथा तत आह 'विशुद्धमानस्य ' तदावरण कलंकविगमत उत्तरोत्तरविशुद्धिमासादयतः, अनेनाऽविरतसम्यग्टष्टेर्वर्द्धमानकाऽवधेः शुद्धिजन्यत्वमाह तथा 'विशुद्धमानचारित्रस्य', इदं च विशेषणं देशविश्त सर्वविश्तयो वैदितव्यं । ' सर्वतः सर्वासु दिक्षु समंतादवधिः परिवर्द्धते । सच कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते ततः प्रथमतः सर्वजघन्यं अवधिं प्रतिपादयति । 4 जावइआ तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना ओही खित्तं जहन्नं तु ॥ १ ॥ 'जावया' इत्यादि, 'त्रि' - 'समयाहारकस्य' आहारयति आहारं गृह्णाति इति आहारकः, त्रयः समयाः समाहृताः त्रिसमर्थ, त्रिसमयं आहारकः त्रिसमयाहारकः, ' नाम नाम्ना एकार्थे समासो बहुलं ' [ सि. है. ३-१-१८] इति समासः तस्य ' त्रिसमयाहारकस्य' ' सूक्ष्मस्य सूक्ष्मनामकर्मोदयवर्त्तिनः 'पनकजीवस्य पनकश्चासौ जीवश्च पनकजीवो, वनस्पतिविशेषः, तस्य 'यावती' यावत् परिमाणा, अवगाहंते क्षेत्रं यस्यां स्थिता जंतत्रः साऽवगाहना - तनु इत्यर्थः, 'जघन्या' त्रिसमयाहार कशेपसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणं अवधेः जघन्यं क्षेत्रं, तुशब्द एवकारार्थः, स च अवधारणे, तस्य च एवंप्रयोगः - जघन्यं अवधिक्षेत्रं एतावद् एव इति । किं वा त्रिसमयाहारकत्वं परिगृह्यते ? , १- आह- किमिति योजनसहस्रायामो मत्स्या ? किं वा तस्य तृतीयसमये स्वदेहदेशे सूक्ष्मपनकस्वेनोत्पादः १ इत्यधिकं संभाव्यते मलयगिरिटीकायां दृश्यमानत्वादिति । अवचूरिसमलंकृतम् ॥ ५५ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy