SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् ॥ ५४ ॥ स्थानं' ज्योतिःस्थानप्रकाशितं क्षेत्रं [जानाति] पश्यति, अन्यत्र गतो न पश्यति [न जानाति ] एष दृष्टान्तः । उपनयं आह'एवमेव ' अनेनैव प्रकारेण अनानुगामिकं अवधिज्ञानं यत्र एव क्षेत्रे व्यवस्थितस्य सतः समुत्पद्यते तत्र एव व्यवस्थितः सन् संख्येयानि असंख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सह संबद्धानि असंबद्धानि वा अवधिः कोऽपि जायमानः स्वावगाढदेशात् आरभ्य निरंतरं प्रकाशयति कोऽपि पुनः अपतिराले अंतरं कृत्वा परतः प्रकाशयति, ततः उच्यते - संबद्धानि असंबद्धानि वा इति, ' जानाति विशेषाकारेण परिछिनत्ति ' पश्यति' सामान्याकारेण अवबुध्यते ' अन्यत्र च ' देशांतरे गतो नैव पश्यति । अवधिज्ञानावरणक्षयोपशमस्य तत् क्षेत्र सापेक्षत्वात् । तदेवं उक्तं अनानुगामिकं । संप्रति वर्द्धमानकं अनवबुध्यमानः शिष्यः प्रश्नं करोति -- से किं तं वमाणयं ओहिनाणं ? वमाणयं ओहिनाणं पसत्थेसु अज्झवसाणट्ठाणेसु वहमाणस्स बढमाणचरित्तस्स | विसुज्झमाणस्स विसुज्झमाणचरितस्स । सव्वओ समंता ओहिनाणं बढइ ॥ सू० ॥ १२ ॥ अथ किं तत् वर्द्धमानकं अवधिज्ञानं १, सूरिराह-वर्द्धमानकं अवधिज्ञानं प्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्यो परंजितं चित्तं अध्यवसायस्थानं उच्यते तच्चानवस्थितं तल्लेश्याद्रव्यसाचिव्ये विशेषसंभवात् ततो बहुवचनं उक्तं, प्रशस्तेषु इति, अनेन च अप्रशस्त कृष्णादिद्रव्य लेश्यो परंजितव्यवच्छेदं आह- प्रशस्तेषु अध्यवसायस्थानेषु वर्त्तमानस्य इति किमुक्तं भवति । प्रशस्ताध्यवसाय स्थान कलितस्य, ' सर्वत: ' समंतात् अवधिः परिवर्द्धते इति संबंध, अनेन अविरतसम्यग्दृष्टेः अपि परिवर्द्धमानको ऽवधि र्भवतीत्याख्यायते । तथा ' वडमाणचरित्तस्स ' प्रशस्तेषु अध्यवसाय , अवचूरिसमलंकृतम् ॥ ५४ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy