________________
नन्दि सूत्रम् ॥ ५६ ॥
उच्यते, इह योजनससहस्रायामो मत्स्यः १ स किल त्रिभिः समयैः आत्मानं संक्षिपति महतः प्रयत्नविशेषात् । महाप्रयत्नविशेषाधिरूढश्व उत्पातदेशेऽवगाहनामारभमाणोऽतीव सूक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चाऽन्य
पेक्षा सूक्ष्मतम अवगाहनो भवति । ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेषु अतिस्थूलः त्रिसमयाहारकस्तु योग्यस्ततः त्रिसमयाहारकग्रहणं, उक्तं च-मच्छो महल्लकाओ संखित्तो जो उ तेहिं समएहिं । स किर पयत्तविसेसेण सहमोगाहणं कुणइ ॥ १ ॥ सण्हयरा सण्हयरो सुडुमो पणओ जहणदेहो प । स बहुविसेसविसिको सहयरो सङ्घदेहेसु || २ || पढमबीए तिसण्हो जायद धूलो चडत्थयाईसु । तईयसमयमि जोग्गो गहिओ तो तिसमयाहारो ॥ ३ ॥ " अन्ये तु व्याचक्षते ' त्रिसमयाहारकस्य ' इति आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समयः सूची संहरणउत्पत्तिदेशागमविषयः, एवं त्रयः समया विग्रहमतिअभावादेतेषु त्रिष्वपि समयेध्वाहारकः, तत उत्पाद समय एव त्रिसमयाहारकः सूक्ष्मपनक जीवो जघन्यावगाहनश्च ततः तत् शरीरमानं जघन्यं अवधेः क्षेत्रं, तत् च अयुक्तं यतस्त्रिसमयाहारकस्य इति विशेषणं पनकस्य, न च मत्स्यायामप्रतरसंहरणसमयौ पनकमवस्य संबंधिनौ, किंतु मत्स्यभवस्य तत उत्पाद समयादारम्य त्रिसमयाहारकस्य इति द्रष्टव्यं नान्यथा । एतावत्प्रमाणजघन्यक्षेत्रस्य अवधिः, तैजसभाषायाः प्रायोग्यवर्गणापांतरालवर्त्तिद्रव्यमालंबते । ' तेयामासादद्दाणमंतरा एत्थ लहद्द पट्ठवओ' इति वचनात् तदपि चालंन्यमानं द्रव्यं द्विधा - गुरुलघु-अगुरुलघु च तत्र तैजसप्रत्यासन्नं गुरुलघु भाषाप्रत्यासन्नं च अगुरुलघु, तत् गतांश्च पर्यायान् चतुः संख्यानेव वर्णगंधरसस्पर्शलक्षणान् पश्यति न शेषान्, यत आह- दवाई अंगुला संखेजातीत
1
अवचूरिसमलंकृतम्
॥ ५६ ॥