________________
मन्दिसूत्रम्
॥ ५२ ॥
भावनीयं, नवरं ' अणुकड्डुमाणे ' चि हस्तगतं दंडाप्रादिस्थितं वा अनु-पश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्चात् कृत्वा समाकर्षन् समाकर्षनित्यर्थः । तथा पार्श्वतः दक्षिणपार्श्वतः अथवा वामपार्श्वतो यदा द्वयोरपि पार्श्वयोः उल्कादिकं हस्तस्थितं दंडाप्रादिस्थितं वा परिकर्षन्- पार्श्वभागे कृत्वा समाकर्षन् समाकर्षनित्यर्थः । से किं तं मज्झगतं इत्यादि निगदसिद्धं नवरं 'मस्तके 'शिरसि कृत्वा गच्छेत्तदेतत् मध्यगतं, इयं अत्र भावना-यथा तेन मस्तकस्थेन सर्वासु दिक्षु पश्यति, एवं येन अवधिज्ञानेन सर्वासु दिक्षु पश्यति तन्मध्यगतमिति ।
इत्थंभूतां च व्याख्यां सम्यग् नावबुध्यमानः शिष्यः प्रश्नं करोति ।
अंतगयरस मज्झगयरस य को पइविसेसो पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिजाणि वा असंखेज्जणि वा जोअणाई जाणइ पासह । मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखिजाणि वा असंखिजाणि वा जोअणाई जाणह पासइ । पासओ अंतगएणं ओहिनाणेणं पासओ चैव संखिजाणि वा असंखेज्जाणि वा जोअणाई जाणह पासह । मज्झगएणं ओहिनाणेणं सव्वओ समता संखिज्जाणि वा असंखेज्जाणि वा जोअणाई जाणह पासह से तं आणुगामिअं ओहिनाणं ।
अंतगतस्य मध्यगतस्य च परस्परं कः प्रतिविशेषः १ प्रतिनियतो विशेषः १ सूरिराह - पुरतः अंतगतेन अवधिज्ञानेन पुरत १ देवनारकतीर्थकृतां अवश्यं इदमेव भवति, देवनारकाणां आभववर्ति तीर्थकृतां तु आकेवलज्ञानमिति, तिरश्यामन्तगतं भवति, मनुष्याणां तु यथा क्षयोपशमं भवतीति विज्ञेयम् ।
अवचूरिसमलंकृतम्
॥ ५२ ॥