________________
नन्दिसूत्रम्
अवचरिसमलंकृतम्
HODANESSTTEDURESS
आत्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेन उपलब्धिः तन्मध्ये गतं मध्यगतं । अथवा तेन अवधिज्ञानेन यद्योतित क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्यभागे गतं-स्थितं मध्यगतं, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्तित्वात् । चशब्दः स्वगतानेकमेदसूचकः । अथ किं तत् अंतगतं ?, अंतगतं 'त्रिविधं' त्रिप्रकारं प्रज्ञप्तं, तद्यथा-तत्र 'पुरतः' अवधिन्नानिनः स्वव्यपेक्षया अग्रमागे अंतगतं पुरतः अंतगतं । तथा मार्गत:-पृष्ठतः अंतगतं मार्गतः अंतगतं, तथा पार्श्वतोद्वयोः पार्श्वयोः एकतरपार्श्वतो वा अंतगतं पाश्वतोऽतगतं ।। अथ किं तत्पुरतः अंतगतं ?, 'से जहा' इत्यादि |
स' विवक्षितो यथानामकः कश्चित्पुरुषः अत्र सर्वेषु अपि पदेषु एकारांतत्वमेवत्वं 'अतः सौ पुंसि' इति मागधिकभाषालक्षणात् । सर्व अपि हि प्रवचनं अर्द्धमागधिकभाषात्मकमर्धमागधिकमाषया तीर्थकता देशनाप्रवृत्तेः, ततः प्रायः सर्वत्रापि मागधिकभाषालक्षणं अनुसरणीयं । ' उकं वा इति' उल्का-दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, 'चटुली वा' चली:-पर्यन्तज्वलिततृणपलिका 'अलातं वा' अलातं-उल्मुकं अग्रभागे ज्वलत्काष्टं इत्यर्थः । 'मणि वा' मणिं प्रतीतः, 'ज्योतिर्वा 'ज्योतिः शरावादिआधारो बलदग्निः, 'प्रदीपं वा' प्रदीप:-प्रतीतः 'पुरतः' अग्रतः हस्ते दंडादौ वा कृत्वा । प्रणुदनहस्तस्थितं दंडाग्रादिस्थितं वा क्रमेण स्वगतिअनुसारतः प्रेरयन् प्रेरयन् 'गच्छेत्' यायात् , एष दृष्टांतः, उपनयस्तु | स्वयमेव भावनीयः, तत उपसंहरति-' से तं पुरओ अंतगतं' से शब्दः प्रतिवचनउपसंहारदर्शने, तदेतत्पुरतः अंतगतं, इयमत्र भावना-यथा स पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येन अवधिज्ञानेन तथाविधक्षयोपशमभावतः परत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरतः अंतगतं अभिधीयते । एवं मार्गतोऽतगत[सूत्रपार्श्वतोऽतगतचा
★ा॥५१॥