________________
मन्दिसूत्रम्
॥ ४७ ॥
अत्रापि चशब्दौ प्रत्येकं स्वगतानेकमेदसूचकौ, पंचेंद्रियतिर्यगूमनुष्याणां चावधिज्ञानं नावश्यं मावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते । परमार्थतः पुनः सकलमपि अवधिज्ञानं क्षायोपशमिकं ॥ ' को हेतुः ? ' किं निमित्तं यत् वशात् अवधिज्ञानं क्षायोपशमिकं इत्युच्यते १, क्षायोपशमिकं येन कारणेन तदावरणीयानां अवधिज्ञानावरणीयानां कर्म्मणां उदीर्णानां क्षयेण अनुदीर्णानां उदयावलिकां अप्राप्तानां उपशमेन विपाकोदय विष्कं मलक्षणेन अवधिज्ञानं उत्पद्यतेऽनेन कारणेन क्षायोपशमिकं इति उच्यते । क्षयोपशमथ देशघातिरसस्पर्द्धकानां उदये सति भवति न सर्वघातिरसस्पर्द्धकानां, अथ किं इदं देशघाती सर्वातीनि वा रसस्पर्द्धकानि इति ? उच्यते, इह कर्म्मणां प्रत्येकं अनंतानंतानि रसस्पर्द्धकानि भवति, रसस्पर्द्धकस्वरूपं च कर्म्मप्रकृतिटीकायां सप्रपंचं उपदर्शितं इति न भूयो दर्श्यते ।
अह वा गुणपडिवन्नस्स अणगारस्स ओहिनाणं समुपज्जह तं समासओ छन्विहं पन्नन्तं तं जहाआणुगामिअं, अणाणुगामिअं, वडमाणयं, हीयमाणयं, पडिवाईयं, अप्पडिवाईयं । सू० ॥ ९ ॥
' अथवा ' इति प्रकारांतरोपदर्शने, प्रकारांतरता च गुणप्रतिपत्तिमंतरेणेत्यपेक्ष्य द्रष्टव्या गुणाः- मूलोत्तररूपास्तान् प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिपन्नः पात्रं इति कृत्वा गुणैः आश्रितो गुणप्रतिपन्नः, अगारं गृहं न विद्यते यस्यासौ अनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः । तस्य - प्रशस्तेषु अध्यवसायेषु वर्त्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशवातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमेण क्षयोपशमभावतोऽवधिज्ञानमुपजायते । ' तद्' अवधिज्ञानं 'समासतः' संक्षेपेण 'पविधं ' षट्प्रकारं प्रशसं, तद्यथा - ' आनुगामिकमित्यादि, तत्र गच्छंतं पुरुषं- आसमंतादनुगच्छति इत्येवं शीलं आनुगामि अनुगाम्येव
अवचूरिसमलंकृतम्
॥ ४७ ॥