________________
नन्दिसूत्रम् ॥ ४६ ॥
तयावर णिज्जाणं कम्माणं उदिष्णाणं खएणं अणुदिण्णाण उवसमेणं ओहिनाणं समुपज्जइ ।
अथ किं तन् नोइंद्रियप्रत्यक्ष 2, नोइंद्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा - अवधिज्ञानप्रत्यक्षं इत्यादि ॥ अथ किं तत् अवधिज्ञानप्रत्यक्ष १ अवधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-मत्रप्रत्ययं च क्षायोपशमिकं च तत्र भवंति कर्मवशवर्त्तिनः प्राणिनः अस्मिन्निति भवो - नारकादि जन्म 'पुंनाम्नी 'ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः कारणं यस्य तत् भवप्रत्ययं, प्रत्ययशब्दश्च इह कारणपर्यायः वर्त्तते च प्रत्ययशब्दः कारणत्वे, यत उक्तं- ' प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्रये', चशब्दः स्वगतदेवनारकाश्रितमेदद्वयसूचकः, तौ च द्वौ भेदौ अनंतरं एव वक्ष्यति । तथा क्षयश्च उपशमच क्षयोपशम ताभ्यां निर्वृचं क्षायोपशमिकं चशब्दः स्वगतानेकमेदसूचकः, तत्र यत् एषां भवति तत् तेषां उपदर्शयति- दोहमित्यादि, द्वयोः जीवसमूहयोः भवप्रत्ययं तद्यथा - देवानां नारकाणां च । तत्र दीव्यंति-निरुपमक्रीडां अनुभवति इति देवास्तेषां तथा नरान् कार्यति शब्दयंति योग्यताया अनतिक्रमेणाकाश्रयंति जंतून स्वस्थाने इति नरकास्तेषु भवा नारकास्तेषां, शब्द उभयत्रापि स्वगतानेकभेदसूचकः, ते च संस्थान चितायां अग्रे दर्शयिष्यंते । अत्र आह पर:- ननु अवधिज्ञानं क्षायोपशमिके भावे वर्त्तते नारकादिभवश्च औदयिके तत्कथं देवादीनां अवधिज्ञानं मत्रप्रत्ययं इति व्यपदिश्यते १, न एष दोषः, यतस्तदपि परमार्थतः क्षायोपशमिकं एव, केवलं स क्षयोपशमो देवनारकभवेषु अवश्य मात्री पक्षिणां गगनगमनलब्धिः इव, ततो भवप्रत्ययं इति व्यपदिश्यते, तथा द्वयोः क्षायोपशमिकं तत्, यथा मनुष्याणां च पंचेंद्रियतिर्यग्योनिजानां च,
१- पुं नाम्निध:' इति सि. है. ५-३-१३०. सूत्रमुपलभ्यते ।
अवचूरिसमलंकृतम्
॥ ४६ ॥