________________
मन्दिसूत्रम्
॥ ४५ ॥
इंद्रियप्रत्येक्षं पंचविधं प्रज्ञप्तं, तद्यथा-श्रोत्रेंद्रियप्रत्यक्षं इत्यादि, तत्र श्रोत्रेंद्रियस्य प्रत्यक्षं श्रोत्रेंद्रियप्रत्यक्षं । श्रोत्रेंद्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेंद्रियप्रत्यक्षमिति भावः । एवं शेषेषु अपि भावनीयं । एतच्च व्यवहारत उच्यते, न परमार्थत इति अनंतरं एव प्रागुक्तं । आह-स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि इंद्रियाणि इति क्रमः, अयमेव च समीचीनः, पूर्वपूर्वलाभ एवं उत्तरोत्तरलाभसंभवात्ततः किमर्थं उत्क्रमोपन्यासः कृतः १, उच्यते, अस्ति पूर्वानुपूर्वी, अस्ति पञ्चानुपूर्वीति न्याय प्रदर्शनार्थं, अपि च-शेषेंद्रियापेक्षया श्रोत्रेंद्रियं पटु, ततः श्रोनेंद्रियस्य प्रत्यक्षं तत् शेषेंद्रिय प्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं च उपवर्ण्यमानं विनेयः सुखेन अवबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रेंद्रियादिक्रमः उक्तः ॥
से किं तं नोइंदिअपचक्खं १ नोइंदिअपञ्चक्खं तिविहं पन्नतं तं जहा - ओहिनाणं नोइंदिअपचक्खं । मणपज्जवनाणं नोइंदिअपचक्खं । केवलनाणं नोइंदिअपचक्खं । से किं तं ओहिनाणनोइंदिअपचक्ख ? ओहिनाणनोइंदिअपञ्चकखं दुविहं पन्नत्तं तं जहा-भवपञ्चइअं च खओवसमिअं च । से किं तं भवपचइयं १ भवपचयं दोहं पन्नत्तं तं जहा देवाण य नेरह आण य । से किं तं खओवसमिअं १ खओवसमिअं दुविहं पन्नत्तं तं जहा- मणूसाण य पंचिंदिअतिरिक्खजोणिआण य । को हेऊ खओवसमिअं १ खओवसमिअं
१- प्रत्यक्ष शब्दस्य केचित् अक्षं अक्षं प्रति वर्तते इत्यव्ययीभावं विदधति तच न युज्यते - अनुयोगद्वारटीकायां निषिद्धत्वात् किन्तु प्रतिगतम्-आश्रितमक्षं प्रत्यक्षमिति तत्पुरुष एव ग्राह्यः अव्ययीभावे त्रिलिङ्गताभावात् - प्रत्यक्षो बुद्धिः प्रत्यक्षो बोधः प्रत्यक्षं ज्ञानमिति त्रिलिङ्गता न स्यादिति भावः ।
अवचूरिसमलंकृतम्
॥ ४५ ॥