SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् ॥ ४८ ॥ आनुगामिकं, स्वार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगमिक, यत् लोचनवत् गच्छंतं अनुगच्छति तदवधिज्ञानं अनुगामिकमिति । तथा न आनुगामिकं अनानुगामिकं श्रृंखलाप्रतिबद्धप्रदीप इव यत् न गच्छतं अनुगच्छति तदवधिज्ञानं अनानुगामिकं । उक्तं च- " अणुगामिओऽणुगच्छ गच्छंतं लोयणं जहा पुरिसं । इयरो उ नानुगच्छइ ठियप्पईवोह गच्छंतं ॥ १ ॥ " तथा वर्द्धत इति वर्द्धमानं, ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरें धनप्रक्षेपादभिर्वर्द्धमान दहनज्वालाकलाप इव पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसाय भावतो अभिवर्द्धमानं अवधिज्ञानं वर्द्धमानकं, तच्चासकृद्विशिष्टगुणविशुद्धिसापेक्षस्वात् । तथा हीयते - तथाविधसामय्यभावतो हानिं उपगच्छति [ तत् ] हीयमानं, कर्मकर्तृविवक्षायामानश्प्रत्ययः, हीयमानमेव ही मानकं, 'कुत्सिताल्पाज्ञाते ' [ सि. है. ७-३-३३. ] इति कप्प्रत्ययः, पूर्वावस्थातो यत् अधोऽधो हासं उपगच्छति अवधिज्ञानं तत् हीयमानकं इति मावः । उक्तं च- " हीयमाणं पुढावत्थाओ अहोऽहो इस्समाणं " इति । तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पन्नं सत् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसं उपयाति वत् प्रतिपाति इत्यर्थः । हीयमानकप्रतिपातिनोः कः प्रतिविशेषः इति चेदुच्यते, हीयमानकं पूर्वावस्थातोऽघोऽघो द्वासं उपगच्छदभिधीयते । यत्पुनः प्रदीप इव निर्मूलं एककालं अपगच्छति तद् प्रतिपाति तथा न प्रतिपाति-यत् न केवलज्ञानात् अर्वाक् भ्रंशं उपयाति तत् अप्रतिपाति इत्यर्थः । १-आनुगामिकानानुगामिकरूपभेदद्वये एव शेषभेदाः अन्तर्भावयितुं शक्यन्ते तथापि आनुगामिकानानुगमिकं चेत्युके न वर्द्धमानकादयो विशेष अवगन्तुं शक्यन्ते अतः विशेषभेदोपन्यासकरणमिति ज्ञेयम् । अवचूरिसमलंकृतम् ॥ ४८ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy