________________
मन्दिसूत्रम्
॥ ४१ ॥
चिसावगशद्धोऽग्रे सम्बद्धयते, ततो मृगसिंह कुर्कुटशावभूता इत्यर्थः, 'असंठविय'त्ति असंस्थापिता, असंस्कृता इत्यर्थः । 'सुखसंज्ञाप्या' सुखेन प्रज्ञापनीयाः । तथा दुबियढ 'त्ति' दुर्विदग्धा मिध्याहङ्कार विडम्बिता, किंमुक्तं भवति ?, या तत्तद्गुणज्ञपार्श्वापगमनेन कतिपयपदानि उपजीव्य पांडित्याभिमानिनी किंचित् मात्रं अर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपांडित्यख्यापनायाभिमानतोऽवज्ञया पश्यति । अर्थ कथ्यमानं चात्मनो बहुज्ञतासूचनाय अग्रे त्वरितं पठति सा पर्षद् दुर्विदग्धा इत्युच्यते ॥ उक्तं च- किंचिम्मत्तग्गाही पत्रगाहीय तुरियगाहीय। दुवियडिया उ एसा भणिया तिविधा भवे परिसा ॥ १ ॥ " अमूनां च तिसृगां पदां मध्ये आये द्वे पर्षद अनुयोगयोग्ये, तृतीया तु अयोग्या । तत आये द्वे एव अधिकृत्य अनुयोगः प्रारम्भणीयो, न तु दुर्विदग्धां माभूत् आचार्यस्य निःफलः परिश्रमः, तस्याश्च दुरंतसंसारोपनिपातः, सा हि तथाखाभान्यात् यत्किमपि अर्थपदं शृणोति, तदपि अवज्ञया श्रुत्वा च सासदं अन्यत्र सर्वजनातिशायिनिजपांडित्याभिमानतो महतो महीयसोऽवमन्यते । तदवज्ञया च दुरंत संसाराभिष्वंग इति स्थितं, तदेवमभीष्टदेवतास्तवादिसंपादितसकलसाहित्यो भगवान् दृष्यगणिपादोपसेवी पूर्वांतर्गतसूत्रार्थवारको देववाचको योग्यविनेयपरीक्षां कृत्वा संप्रति अधिकृताध्य नविषयस्य ज्ञानस्य प्ररूपणां विदधाति
नाणं पञ्चविहं पनतं जहा - आभिणिवोहिअनाणं सुअनाणं, ओहिनाणं, मगपज्जवनाणं केवलनाणं ॥
ज्ञातिर्ज्ञानं, 'पंच' इति संख्यावाचकः विधानं विधा 'उपसर्गादात' [सि. है. ५-३ ११० ] इत्यङ्प्रत्ययः, पंचविधाः प्रकारा यस्य तत्पंचविधं पंचप्रकारं 'प्रज्ञप्तं' तीर्थकर गणवरैः इति सामर्थ्यादवसीयते । अन्यस्य स्वयं [अ] प्ररूपकत्वेन प्ररूपणा संभवादुक्तं च 'अत्यं भासह अरहा सुत्तं गुथति गणहरा निउणं । सासणस्स हियद्वाए तओ सुत्तं पवतह ॥ १ ॥ एतेन स्वमनीषिकान्युदासं आह । अथवा
अवचूरिसमलंकृतम्
४१