________________
नन्दिसूत्रम्
॥ ३९ ६
|
मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना कोपप्रकोपकाः, यत उक्तं उत्तराध्ययनेषु - " अणासवा धूलवया कुसीला, मिउंपि चंडं पकरंति सीसा " इति । अपि च-गुणगुरवो गुरवस्ततः ते यदि कथं अपि दुष्टशैक्षशिक्षापणे न कोपं उपागमन् तथापि तेषां भगवदाज्ञाविलोआशातातपचिताशुभगुरुकर्माणो नियमतो दीर्घतरसंसार भागिनः, किञ्च - एवं स वर्त्तमानो मतिमान् अपि श्रुतरत्नाद्वहिर्भवति । अन्यत्रापि तस्य दुर्लभ श्रुतत्वात् कोहि नाम सचेतनो दीर्घतरजीविताभिलाषी सर्पमुखे स्वहस्तेन ययोविन्द्न् प्रक्षिपति इति, स एकान्तेन अयोग्यः ? प्रतिपक्ष भावनायां अपि इदमेव कथानकं परिभावनीयं, केवलं इह घृतघटे भने सति द्वौ अपि तौ दम्पती त्वरितं त्वरितं करे यथाशक्ति घृतं गृहीतवन्तौ स्तोकं एव विननाश, निन्दति च आत्मानं आभीरो यथा - हा न मया घृतघटः ते सम्यक् समर्पितः, आभीर्यपि वदति-समर्पितस्त्वया सम्यक् परं न मया सम्यक् गृहीतः, तत एव तयोः न कोपावेशदुःखं नापि घृतहानिः नापि सकाल एव अन्यसार्थिकैः सह स्वग्रामं अभिसर्पतां अपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातौ, एवमिहापि कथंचित् अनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शैक्ष पूर्वमुक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्तव्यं - वत्स ! मैवं व्याख्यः, मया तदानीं अनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि । तत एवं उक्ते सति यो विनेयः कुलीनो विनीतात्मा स एवं प्रतिवदति - यथा भगवंतः ? किं अन्यथा प्ररूपयंति ?, केवलं अहं मतिदौर्बल्यादन्यथावगतवान् इति, स एकान्तेन योग्यः ?, एवं विधाश्च विनेयाः प्रह्लादितगुरुमनसः श्रुतार्णवपारगामिनो जायन्ते, चारित्रसंपदश्च भागिनः ॥ १४ ॥
तदेवं एकैकं शैक्षं अधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतं । संप्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयति ।
अवचूरिसमलंकृतम्
॥ ३९ ॥