________________
नन्दसत्रम् ॥ ३८ ॥
गत्य वणिगापणेषु पणायितुं प्रवृत्तो, घटितच पणाय संकः, ततः समारब्धे घृतमापे गंत्र्या अधस्तादवस्थिता आभीरी, घृतं भर्त्रा वारकेण समर्प्यमाणं प्रतीच्छति । ततः कथं अपि अर्पणे ग्रहणे वानुपयोगतः अपांतराले वारकापरपर्यायो लघुघृतघटो भूमौ निपत्य खंडशो भग्नः, ततो घृतहानिदुर्मनाः पतिः उल्लपितं खरपरुषवाक्यानि प्रावर्तत । यथा हा पापीयसि ? दुःशीले कामविडंवितमानसे ? नरतरुणिमाभिरमणीयं पुरुषान्तरं अवलोकसे न सम्यग्धृतघटं अभिगृह्णासि । ततः सा खरपरुपवाक्यश्रवणतः समुत्थितकोपावेशवशोच्छलितर्क पितपीनपयोधरा स्फुरदधरबिंबोष्ठी दूरोत्पाटितभ्रूः एषा धनुः अवष्टंभतो नाराचश्रेणिमिव कृष्णकटाक्षसंततिं अविरतं प्रतिक्षिपत् प्रत्युवाच - हा ग्रामेयकाधम ! घृतघटं अपि अवगणय्यविदग्धमत्तकामिनीनां मुखारविंदानि अवलोकसे, न च एतावताऽवतिष्ठसे, ततः खरपरुषवाक्यैः मामपि अधिक्षिपसि । ततः स एवं प्रत्युक्तोऽतीवज्वलितकोपानलो यत्किंचिदसिद्धं भाषितुं लग्नस्ततः साप्येवं, समभूत्तयोः केशाकेशी, ततो विसंस्थुलपादादिन्यासतः सकलं अपि प्रायो मंत्रीघृतं भूमौ निपतितं । तत्किचित्स्तोकं अपगतमवशेषं चावलीढं श्वभिः, मंत्रीघृतं अपि शेषीभूतमपहृतं पश्यतो हरैः, सार्थिका अपि स्वं स्वं घृतं विक्रिय स्वग्रामगमनं प्रपन्ना स्ततः प्रभूतदिवस भागातिक्रमेण अपसृते युद्धे स्वास्थ्ये च लब्धे यत् किंचित्प्रथमतो विक्रयामासतुर्घृतं तत् द्रव्यमादाय तयोः स्वग्रामं गच्छतो अपांतराले अस्तंगते सहस्रभानौ सर्वतः प्रसरं अभिगृह्णति तमोविताने परास्कंदिनः समागत्य वासांसि द्रव्यं बलीवद्द च अपहृतवंतस्तन एवं तौ महतो दुःखस्य भाजनं अजायेतां । एष दृष्टान्तोऽयमुपनयः यो विनेयोऽन्यथा प्ररूपयन् अधीयानो वा कथं अपि खरपरुषवाक्यैः आचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति - यथा त्वया एव इत्थमहं शिक्षितः, किं इदानीं निनुषे ? इत्यादि, स न केवलं आत्मानं संसारे पातयति, किन्तु आचार्य अपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनाद्भवन्ति च कुविनेया
अवचूरिसमलंकृतम्
३८ ॥