________________
नन्दिसत्रम 8|ततस्तेन तच्छशकलमेकं तस्मै व्यतीरिष्ट ततः स्थाने च तस्यामन्यशकलं योजितं । एवमन्यान्यदेशांतरायातरोगिजनेभ्यो धन- 18 ॥ ३७॥ लुब्धतया खण्डखण्डप्रदाने सकलापि भेरी कंथैव खण्डसंघातात्मिका कृता, ततोऽपगतो दिव्यप्रभावः, ततस्तदवस्थमेव अशिवं प्रावर्तिष्ट,
| अवचूरिसमुत्थितश्चारावोऽशिवप्रादुर्भावविषयः पौरजनानां, विज्ञप्तश्च महत्तरैजनार्दन; भूयोऽपि विजृम्भते वर्षासु कृष्णशर्वर्यामन्धकार इव समलंकृतम् पुरि द्वारवत्यां महदशिवं । ततः प्रातरास्थानमण्डपे सिंहासने समुपविश्याकारितो भेरीताडननियुक्तः पुमान् , दत्तश्चादेशोऽस्मै | भेरीताडने, ततः ताडिता तेन भेरी, साऽपगतदिव्यप्रभावा न भांकारशब्देनास्थानमण्डपमात्रमपि पूरयति । ततो विस्मितो जनाईनो-यथा किं एषा नास्थानमण्डपमपि भांकारशब्देन पूरयितुं शक्नुवती ?, ततः स्वयं निभालमास तां भेरी; दृष्ट्वा च सा महा । दरिद्रकथेव लघुतरशकलसहस्रसङ्घातात्मिका, ततश्रुकोप तस्मै जनार्दनो-रे दुष्टाधम ! किमिदं अकार्षीः ?, ततः स प्राणभयात्सकलमपि यथावस्थितमचीकथत् । ततो महानर्थकारित्वात्स तत्कालं एव निरोपितो विनाशाय, ततो भूयोपि जनार्दनो जनानुकम्पया पौषधशालां उपगम्य अष्टमभक्तविधानतः तं देवं आराधयामास, ततः प्रत्यक्षो बभूव स देवः, कथितवांश्च जनार्दनः प्रयोजनं, ततो भूयोऽपि दत्तवान् अशिवोपशमिनी मेरी, तां चाप्तत्वेन सुनिश्चिताय कृष्णः समर्पयामास एष दृष्टान्तः, अयमर्थोपनयः-यथा मेरी तथा प्रवचनावगतौ सूत्रार्थों, यथा च मेरीशब्दश्रवणतो रोगापगमः तथा सिद्धांतस्य प्रभावत: श्रवणतो वा जंतूनां कर्मविनाशस्ततो यः सूत्रार्थों अपान्तराले विस्मृत्य विस्मृत्य अन्यतः सूत्रं अर्थ वा संयोज्य कंथासमानौ करोति स भेरीताडननियुक्तप्रथमपुरुषसमानः,स च एकांतेन अयोग्यः, यस्तु आचार्यप्रणीती सूत्रार्थी यथावदवधारयति साभेरीताडननियुक्तपाश्चात्यपुरुष इव कल्याणसंपदे योग्यः॥१३॥
सम्प्रति आभीरीदृष्टान्तभावना-कश्चिदाभीरो निजभार्ययासह विक्रयाय घृतं गंच्या गृहीत्वा पत्तनं अवतीर्णश्चतुःपथे समा