________________
नन्दिसत्रम्
अवनिसमलरुतम्
सम्प्रति मेरीदृष्टान्तभावना-दह शक्रादेशेन वैश्रवणयक्षनिििपतायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्ड भरतार्दाधिपत्वं अनुभवति केशवे कदाचित् अशिवं उपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्रसंकुले सौधर्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौकापर्युपास्थमानः शक्राभिधानो मघवा पुरुषगुणविचारणाधिकारे केशवं इलाधःस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकार्षीत-अहो महानुभावा विष्णवो यत् दोषबहुलेऽपि वस्तुनि स्वभावतो गुणं एवं गृह्णन्ति, नदोषलेशं अपि, न च नीचयुद्धेन युद्धचन्ते इति, इत्थं च मघवता केशवस्तुति अधीयमानां असहमानः कोऽपि दिवौकाः परीक्षार्थ इहावतीर्य येन भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले कचित्प्रदेशे समुत्त्रासितसकलजनमहादुरभिगन्धसंकुलं अतीव दीप्यमानमहाकालमकलितं विवृतमुखं उत्पादितश्वेतदन्तपंक्तिं गतप्राणं इव शुनोरूपं विधाय प्रातरवतस्थे । केशवोऽपि चोजयन्तगिरिसमवसृतभगवदरिष्टनेमिनमस्कृतये तेन पथा गन्तुं प्रववृते, पुरोयायी च पश्यादिवर्गः समस्तोऽपि तद्गन्धसमुत्त्रासितो वस्वाचालपिहितनासिकस्त्वरितं इतस्ततो गन्तुमारभे, ततः पृष्टं केशवन-किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुत्त्रासं आदधते ? । ततः कोऽपि विदितवेद्यो विज्ञपयामास-देव ! पुरो महापूतिगन्धिः श्वा मृतो वर्तते, ततः तद्गन्धं असहमानः सर्वोऽपि त्रास अगमत् । केशवश्च महोत्तमतया तद्गन्धात् अनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तोऽवैक्षिष्ट च तं मृतं श्वानं, परिभावयामास च सकलं अपि तस्य रूपं, ततो गुणप्रशंसामक मशक्नुवन् प्रशंसितुं आरभते स्म-अहो जात्यमरकतमयभाजनविनिशितमुक्तामणिश्रेणिः इव शोभतेऽस्य वपुषि कालिमकलिते श्वेतदन्तपद्धतिः इति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरमयजन्मा चिन्तयामास-अहो यथोक्तं मघवता तथैव इति । ततो दूरं गते केशवे तद्रूपं उपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमितं मंदुरागतं एक
SAX