SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् अवनिसमलरुतम् सम्प्रति मेरीदृष्टान्तभावना-दह शक्रादेशेन वैश्रवणयक्षनिििपतायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्ड भरतार्दाधिपत्वं अनुभवति केशवे कदाचित् अशिवं उपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्रसंकुले सौधर्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौकापर्युपास्थमानः शक्राभिधानो मघवा पुरुषगुणविचारणाधिकारे केशवं इलाधःस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकार्षीत-अहो महानुभावा विष्णवो यत् दोषबहुलेऽपि वस्तुनि स्वभावतो गुणं एवं गृह्णन्ति, नदोषलेशं अपि, न च नीचयुद्धेन युद्धचन्ते इति, इत्थं च मघवता केशवस्तुति अधीयमानां असहमानः कोऽपि दिवौकाः परीक्षार्थ इहावतीर्य येन भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले कचित्प्रदेशे समुत्त्रासितसकलजनमहादुरभिगन्धसंकुलं अतीव दीप्यमानमहाकालमकलितं विवृतमुखं उत्पादितश्वेतदन्तपंक्तिं गतप्राणं इव शुनोरूपं विधाय प्रातरवतस्थे । केशवोऽपि चोजयन्तगिरिसमवसृतभगवदरिष्टनेमिनमस्कृतये तेन पथा गन्तुं प्रववृते, पुरोयायी च पश्यादिवर्गः समस्तोऽपि तद्गन्धसमुत्त्रासितो वस्वाचालपिहितनासिकस्त्वरितं इतस्ततो गन्तुमारभे, ततः पृष्टं केशवन-किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुत्त्रासं आदधते ? । ततः कोऽपि विदितवेद्यो विज्ञपयामास-देव ! पुरो महापूतिगन्धिः श्वा मृतो वर्तते, ततः तद्गन्धं असहमानः सर्वोऽपि त्रास अगमत् । केशवश्च महोत्तमतया तद्गन्धात् अनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तोऽवैक्षिष्ट च तं मृतं श्वानं, परिभावयामास च सकलं अपि तस्य रूपं, ततो गुणप्रशंसामक मशक्नुवन् प्रशंसितुं आरभते स्म-अहो जात्यमरकतमयभाजनविनिशितमुक्तामणिश्रेणिः इव शोभतेऽस्य वपुषि कालिमकलिते श्वेतदन्तपद्धतिः इति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरमयजन्मा चिन्तयामास-अहो यथोक्तं मघवता तथैव इति । ततो दूरं गते केशवे तद्रूपं उपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमितं मंदुरागतं एक SAX
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy