________________
नदिसूत्रम्
॥ ३५
कौटुम्बिको धर्म्मश्रद्धया चतुर्भ्यश्वतुर्वेदपारगामिभ्यो गां दत्तवान्, तेऽपि च पूर्ववत् परिपाठ्या दोग्धुमारब्धास्तत्र यस्य यस्य प्रथमदिवसे सा गौरागता स स चिंतितवान्, यदि अहं अस्याः चारिं न दास्यामि ततः क्षुधा धातुक्षयादेषा प्राणानपहास्यति । ततो लोकेषु मे गोहत्याऽवर्णवादो भविष्यति । पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्यति, अपि च-यदि मदीयचारिचरणेन पुष्टा सती शेषैः अपि ब्राह्मणैर्भोक्ष्यति ततो मे महाननुग्रहो भविष्यति, अहमपि च परिपाट्या पुनः अपि एनां धोक्ष्यामि, ततोऽवश्यमस्यै दातव्या चारिः इति ददौ चारिं, एवं शेषा अपि ददुः । ततः सर्वेऽपि चिरकालं दुग्धाभ्यवहार भाजिनो जाताः, लोके च समुच्छलितः साधुवादो लभन्ते च प्रभूतं अन्यदपि गवादिकं, एवं येऽपि विनेयाः चिन्तयन्ति यदि वयं आचार्यस्य न किमपि विननयादिकं विधातारः तत एषोऽवसीदन् अवश्यं अपगतासुर्भविष्यति । लोके च कुशिष्या एते इति अवर्णवादो विजृमिष्यते, ततो गच्छान्तरेऽपि न वयमवकाशं लप्स्यामहे । अपि च- अस्माकं एष प्रव्रज्याशिक्षाव्रतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नं उपयच्छन् वर्त्तते । ततोऽवश्यमेतस्य विनयादिकं अस्माभिः कर्त्तव्यं, अन्यच्च यदि अस्मदीयविनयादिसहायक लेन प्रातीच्छिकानां अपि आचार्यत उपकारः किं अस्माभिर्न लब्धम् ?, द्विगुणतरपुण्यलाभश्च अस्माकं भवेत् । प्रातीच्छिका अपि ये चिन्तयन्ति - अनुपकृतोपकारी भगवान् आचार्योऽस्माकं, को नामाऽन्यो महान्तमेवं व्याख्याप्रयासमस्मनिमित्तं विदधाति । । किं एतेषां वयं प्रत्युपकर्तु शक्ताः ?, तथापि यत् कुर्म्मः सः अस्माकं महान् लाभ इति परनिरपेक्षं विनयादिकं आदधते, तेषां नावसीदति आचार्योऽव्यवच्छिन्ना च सूत्रार्थप्रवृत्तिः, समुच्छलति च सर्वत्र साधुवादः, गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति ॥ १२ ॥
अवचूरिसमलंकृतम्
॥ ३५ ॥