________________
नन्दिसत्रम्
॥ ३४ ॥
गोशीर्षचन्दनमयीं अशिवोपशमनीं देवो भेरीमदात्, कल्पं च अस्याः कथयामास - यथा षण्मासपण्मासपर्यंते निजास्थानमंडपे वाद्या एषा मेरी, शब्द अस्याः सर्वतो द्वादशयोजनव्यापी जलभृतमेघध्वनिः इव गम्भीरो विजृभिष्यते । यच शब्दं श्रोष्यति तस्य प्राक्तनो व्याधिः नियमतः अपयास्यति, भावी च भूयः षण्मासादर्वाक् न भविष्यति । तत एवं उक्त्वा देवः स्वस्थानं अगमत् । वासुदेवोऽपि तां भेरों सदैव भेरीताडननियुक्तान् समर्पितवान्, शिक्षां चास्मै ददौ । यथा षण्मास २ पर्यंते मम आस्थानमण्डपे वाद्या एषा त्वया भेरी, यत्नतश्चावनीया, ततः सकलस्वलोक सामन्तादिबलसमन्वितो निजप्रासादमायासीत् । मुत्कलितश्च प्रतीहारेण सर्वोऽपि लोकः, ततो द्वितीयदिवसे मुक्कुटोपशोभितानेक पार्थिव सहस्रपर्युपास्यमानो निजास्थानमण्डपे विशिष्टसिंहासनोपविष्टः शक्र इव देवैः परिवृतो विराजमानः तां मेरी अताडयत् । भेरीशब्दश्रवणसमनंतरं एव च दिनपतिकरनिकरताडितं अंधकारं इव द्वारवतीपुरि सकलं अपि रोगजालं विध्वंसं उपागमत् । ततः प्रमुदितः सर्वोऽपि पौरलोकः आशास्ते सदैव अधिपतित्वेन जनार्द्दनं, तदेवं | व्याधिविकले गच्छति काले कोऽपि दूरदेशान्तरवर्त्ती धनाढ्यो महारोगाभिभूतो मेरीशब्दमाहात्म्यं आकर्ण्य द्वारवतीं आगमत् स च दैवविनियोगाद् भेरीताङनदिवसातिक्रमे प्राप्तः । ततोऽचिन्तयत् कथं इदानीं अहं भविष्यामि ?, यतो भूयो भेरीताडनं षण्मासातिक्रमे, षड्भिव मासैः एष प्रवर्द्धमानो व्याधिः असूनपि नियमात्कवलयिष्यति । ततः किं करोमि इति १, तत इत्थं कतिपय दिनानि चिन्ताशोकसागर निमग्नः कथं अपि शेमुषीपोतमासाद्योन्मंतं लग्नो-यथा यदि तस्याः शब्दतोऽपि रोगोऽपयाति ततस्तदेकदेशस्य घषित्वा पाने सुतरां अपयास्यति, प्रभृतं मे स्वं ततः प्रलोभयामि धनेन ढाकिकं येन तच्छकलं एकं मे समर्पयति । ततः प्रलोभितो धनेन ढाकिकः, नीचसच्चा हि दुष्टद्वारा इव निरन्तरं धनादिभिः सन्मान्यमाना अपि व्यभिचरन्ति निजपतेः,
अवचूरिसमलंकृतम्
4 ३४॥