________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
REGARGARH
अश्वरत्नं सकललोकसमक्षं अपहृतवान् , धावितश्च मार्गतः सर्वेऽपि उद्गीर्णखडकुन्तादि अङ्गरक्षकादिपदातिवर्गः, समुच्छलितश्च महान् कोलाहलो ज्ञातच अयं व्यतिकरः केशवेन, प्रधाविताश्च सको दिशोदिशं सर्वेऽपि कुमाराः, मुंबन्ति च यथाशक्ति प्रहारान् ,
परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मंदं २ गन्तुं प्रवृत्तः, ततः प्राप्तः केशवः, पृष्टश्च तेन अश्वापहारी-भोः किं ६ मदीयं अश्वरत्नं अपहरसि । तेन उक्त-शक्नोमि अपहर्तु, यदि पुनः अस्ति ते काऽपि शक्तिस्तर्हि मां युझे विनिर्जित्य प्रतिगृ. है| हाण, ततः केशवः तत्पौरुषरंजितमनस्कः सहर्ष एवमवादीद-भो महापुरुष ! येन युद्धेन ब्रूषे तेन युध्येऽहं, ततः सर्वाणि अपि युद्धशानि
केशवो नामग्रार्ह वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाणि अपि सुरसमजन्मा, ततो भूयः केशवो वदति-कथय तर्हि केन युद्धेन युध्येऽहं इति, ततः स प्राह-पूतयुद्धेन, ततः कर्णी पिधाय शल्यहृदय इव हाशन्दव्याहारपुरस्सरं तं प्रत्येवमवादीत-गच्छ गच्छ अश्वरत्नं अपि गृहीत्वा, न अहं नीच खेन युध्ये इति, तदेतत् श्रुत्वा हर्षवशोज् भितपुलकमालोपशोभितं वपुः आदधानः सविस्मयं सुरसबजन्मा खचेतसि चिंतयामास-अहो महोत्तमता केशवानामत एवं शतसहस्रसंख्यनमदमरकिरीटकोटिसकर्षमसणीकृतपादपीठानां मघवतां | अपि एते प्रशंसास्तित एवं चिन्तयित्वा सानन्दमवेक्ष्यमाणो वक्तुं प्रवृत्तो भोः केशव ! न अहं अश्वापहारी, किन्तु त्वगुणपरीक्षानिमित्त एवं कृतवान् , ततः सकलं अपि शक्रप्रशंसादिकं पूर्ववृत्तांत अचकथत । ततः स्वगुणप्रशंसाश्रवणलज्जितोऽवनतमनाकंधरः कुम्नलिवकरसंपुटो जनार्दनस्तमुदतपर्यते मुत्कलयामास स्वस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो हष्टमनाः तं प्रत्येवं अवादीत-महापुरुष ! देवदर्शनं अमोघ मनुजजन्मनां इति प्रवादो जगति प्रसिद्धो मा विफलतामापत् इति वद किंचिदभीष्टं | येन करोमि, इति ततः केशवोत्रवीत-वर्तते संप्रति द्वारवत्यां अशिवं, ततः तत्प्रतिविधानं आतिष्ठ, येन भूयोऽपि न भवति । ततो ।
%ACKASS
॥
३