SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् ॥३२॥ अपरिसमलकृतम् तथा जाहकः-तिर्यक् विशेषः, तत् दृष्टांतभावना-यथा जाहकः स्तोकं स्तोकंक्षीरं पीत्वा पार्वाणि लेडि, तथा शिष्योऽपि यः पूर्व गृहीतं सूत्रं अर्थ वा अतिपरिचितं कृत्वा अन्यत् पृच्छति, स जाहकसमानः, स च योग्यः ॥११॥ | संप्रति गोदृष्टान्तभावना क्रियते-यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्यश्चतुर्वेदपारगामिभ्यो विप्रेभ्यो गौर्दत्ता, ततस्ते परस्परं एवं चिन्तयामासुः । यथा इयं एका गौः चतुणी अस्माकं कथं कर्तव्या ?, तत्र एकेन उक्तं--परिपाट्या दुह्यतां इति, तच्च समीचीनं प्रतिभातं इति सर्वैः प्रतिपन्न, ततो यस्य प्रथमदिवसे गौः आगता तेन चिंतितं--यथाहमयेव धो. क्ष्यामि, कल्ये पुनः अन्यो धोक्ष्यति । ततः किं निरर्थिकां अस्याः चारि वहामि, ततो न किश्चिदपि तस्यै तेन दत्तं । एवं शेषैरपि, 1 ततः सा श्वपाककुलनिपतितेव तृणसलिलादिविरहिता गतासुरभृत्ततः समुत्थितातेपां धिग्जातीयानां अवर्णवादोलोके शेषगोदानादिलामव्यवच्छेदश्च, एवं शिष्या अपि ये चिंतयंति न खलु केवलानां अस्माकं आचार्यों व्याख्यानयति, किंतु प्रतीच्छिकानां अपि, ततस्त एव विनयादिकं करिष्यन्ति, किं अस्माकमिति ? प्रतीच्छिका अपि चिंतयन्ति निजशिष्याः सर्व करिष्यन्ति । किं अस्माकं कियत्कालावस्थायिनामिति ! ततस्तेषां एवं चिन्तयतां अपान्तराल एव आचार्योऽवसीदति, लोके च तेषां अवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभो तेषां सूत्रार्थों, ततः ते गोप्रतिग्राहकचतुर्द्विजातय इव अयोग्या द्रष्टव्याः। उक्तं च-" अन्नो दोज्जिइ कल्ले निरत्ययं से वहामि किं चारिं? चउचरणगवी उ मया अवण्णहाणी व बडुआणं ॥१॥ सीसा पडिगच्छगाणं भरोत्ति ते विहु सीसगभरो ति। न करिति सुत्तहाणी अनस्थ वि दुल्लहं तेसिं ॥२॥" एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, यथा कश्चित् ॥३२॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy