________________
नन्दिसत्रम्
॥३२॥
अपरिसमलकृतम्
तथा जाहकः-तिर्यक् विशेषः, तत् दृष्टांतभावना-यथा जाहकः स्तोकं स्तोकंक्षीरं पीत्वा पार्वाणि लेडि, तथा शिष्योऽपि यः पूर्व गृहीतं सूत्रं अर्थ वा अतिपरिचितं कृत्वा अन्यत् पृच्छति, स जाहकसमानः, स च योग्यः ॥११॥ | संप्रति गोदृष्टान्तभावना क्रियते-यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्यश्चतुर्वेदपारगामिभ्यो विप्रेभ्यो गौर्दत्ता, ततस्ते परस्परं एवं चिन्तयामासुः । यथा इयं एका गौः चतुणी अस्माकं कथं कर्तव्या ?, तत्र एकेन उक्तं--परिपाट्या दुह्यतां इति, तच्च समीचीनं प्रतिभातं इति सर्वैः प्रतिपन्न, ततो यस्य प्रथमदिवसे गौः आगता तेन चिंतितं--यथाहमयेव धो. क्ष्यामि, कल्ये पुनः अन्यो धोक्ष्यति । ततः किं निरर्थिकां अस्याः चारि वहामि, ततो न किश्चिदपि तस्यै तेन दत्तं । एवं शेषैरपि, 1 ततः सा श्वपाककुलनिपतितेव तृणसलिलादिविरहिता गतासुरभृत्ततः समुत्थितातेपां धिग्जातीयानां अवर्णवादोलोके शेषगोदानादिलामव्यवच्छेदश्च, एवं शिष्या अपि ये चिंतयंति न खलु केवलानां अस्माकं आचार्यों व्याख्यानयति, किंतु प्रतीच्छिकानां अपि, ततस्त एव विनयादिकं करिष्यन्ति, किं अस्माकमिति ? प्रतीच्छिका अपि चिंतयन्ति निजशिष्याः सर्व करिष्यन्ति । किं अस्माकं कियत्कालावस्थायिनामिति ! ततस्तेषां एवं चिन्तयतां अपान्तराल एव आचार्योऽवसीदति, लोके च तेषां अवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभो तेषां सूत्रार्थों, ततः ते गोप्रतिग्राहकचतुर्द्विजातय इव अयोग्या द्रष्टव्याः। उक्तं च-" अन्नो दोज्जिइ कल्ले निरत्ययं से वहामि किं चारिं? चउचरणगवी उ मया अवण्णहाणी व बडुआणं ॥१॥ सीसा पडिगच्छगाणं भरोत्ति ते विहु सीसगभरो ति। न करिति सुत्तहाणी अनस्थ वि दुल्लहं तेसिं ॥२॥" एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, यथा कश्चित्
॥३२॥