________________
अवचूरिसमलंकृतम्
नन्दिसूत्रम् |
पृथग्भवनात् । उक्तं च-"अंबत्तणेण जीहाए कूचिया होइ खीरमुदगंमि । हंसो मोत्तण जलं आवियह पयं तह सुसीसो ॥१॥" ॥३१॥
"मोत्तूण दंडदोसे गुरुगोणुवउत्तभासियागंपि। गिण्हइ गुणे उ जोसो जोम्यो समयत्थसारस्स ॥१॥७॥ इदानीं महिपदृष्टान्तभावना-
यथा महिपो निपानस्थानं अवाप्तः सन् उदकमध्ये प्रविश्य तत् उदकं मुहुर्मुहुः शृङ्गाभ्यां ताडयन् अवगाहमानश्च सकलं अपि कलुषीकरोति । ततो न स्वयं पातुं शक्नोति नापि यूथं, तद्वत् शिष्योऽपि यो व्याख्यानप्रबन्धावसरे काण्ड एव क्षुद्रपृच्छाभिः हि कलहविकथादिमिः वाऽऽत्मनः परेषां चानुयोगश्रवणविघातं आधत्ते स महिषसमानः, स च एकान्तेन अयोग्यः, उक्तं च-सयमवि न पियइ महिसो न ज जूहं पियइ लोडियं उदगं । विग्गहविकहाहिं तहा अथक्कपुच्छाहि य कुसीसो ॥१॥"६॥
मेषोदाहरणभावना-यथा मेपो बदनस्य तनुत्वात स्वयं च निभृतात्मा गोष्पदमात्रस्थितमपि जलं अकलुपीकुर्वन् पिबति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरं आचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स च एकान्तेन योग्यः ॥ ७॥
मसकदृष्टान्तभावना-यः शिष्यो मसक इव जात्यादिकं उद्घट्टयन् गुरोः मनसि व्यथा उत्पादयति स मसकसमानः स च योग्यः।८।। ___ जलौकादृष्टांतभावना यथा जलौकाः शरीरं अदुन्वती रुधिरं आकर्षति, तथा शिष्योऽपि यो गुरुं अदुन्वन् श्रुतज्ञानं आपिबति स | जलौकासमानः । उक्तं-जलूगा व अमितो पियइ सुसीसो वि सुयनाणं ॥९॥
बिडालीदृष्टान्तभावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ छर्दयित्वा] पिवति,तथा दुष्टस्वभावत्वात् ,एवं शिष्योऽपि यो विनयकरणादिहीनतयान साक्षात् गुरुतमीपे गत्वा शृणोति,किंतु व्याख्यानादुत्थितेभ्यः केभ्यश्चित , स विडालीसमानः,सच अयोग्यः॥१०॥
छCARRORS
CHOCOCCC
S