________________
नन्दिसूत्रम्
R
चनिकादिभाविता अपि वाम्याः, ये च संविधभाविता अवाम्यास्ते सर्वेऽपि योग्याः, शेषा अयोग्याः, अथवाऽन्यथा कुटदृष्टान्तभावना
अवचूरिदाइह चत्वारः कुटाः, तत् यथा छिद्रकुटः, कण्ठहीनकुटः,खण्डकुटः, [सम्पूर्णकुटश्च,] [तत्र यस्याधोबुध्ने छिद्रं स च्छिद्रकुटः], यस्य पुनः M EGA PI ओष्ठपरिमण्डलाभावः स कंठहीनकुटः, यस्य पुनः एकपाचे खण्डे हीनः स खण्डकुटः, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुटः, एवं |
शिष्या अपि चत्वारो वेदितव्याः । तत्र यो व्याख्यानमण्डल्या उपविष्टः सर्वमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स छिद्रकुटसमानो, यथा हि च्छिद्रकुटो यावत्तदवस्थ एव गाढमवनिसंलग्नोऽवतिष्टते [न] तावत्किमपि जलं ततः सवति, स्तोकं वा किश्चिदिति । एवमेषोऽपि यावदाचार्यः पूर्वापरानुसंधानेन सूत्रार्थमुपदिशति तावत् अवबुध्यते, उत्थितश्चेत् व्याख्यामण्डल्याः तर्हि स्वयं पूर्वापरानुसंधानशक्तिविकलत्वात् न किमपि अनुस्मरतीति, यस्तु व्याख्यानमण्डल्यां अपि उपविष्टोऽर्द्धमात्रं त्रिभागं चतुर्भागं वा हीनं वा सूत्रार्थ अवधारयति यथावधारितं च स्मरति स खण्डकुटसमानः, यस्तु किश्चिदून सूत्रार्थ अवधारयति पश्चादअपि तथैव च स्मरति स कण्ठहीनः कुटसमानः, यस्तु सकलमपि सूत्रार्थ आचार्यों यथावदवधारयति पश्चादपि तथैव स्मृतिपथं अवतारयति स संपूर्णकुटसमानः, अत्र छिद्रकुटसमानः एकांतेनायोग्यः, शेषास्तु योग्याः, यथोत्तरं च प्रधानाः प्रधानतरा इति ॥३॥
संप्रति चालनीदृष्टान्तभावना । चालिनी लोकप्रसिद्धा, यया कणिकादि चाल्यते । यथा चालिन्यामुदकं प्रक्षिप्यमाणं तत्क्ष8 णादेव अधोगच्छति न पुनः कियन्तं अपि कालं अवतिष्ठते । तथा यस्य सूत्रार्थःप्रदीयमानो यदा एव कणे प्रविशति तदा एव विस्मृ ||
तिपथमुपैति स चालिनीसमानः ॥ ४ ॥
ECE