________________
मन्दिसूत्रम्
॥ २८ ॥
परिचाओ सुत्त अत्थपलिमंथो । अन्नेसिं पिय हाणी पुट्ठावि न दुद्धया वंज्जा || १ || ” मुद्गशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्णभूमिप्रदेशः । तत्र हि प्रभूतमपि जलं निषतितं तत्र एवांतःपरिणमति, न पुनः किंचिदपि ततो बहिरपगच्छति, एवं यो विनेयः सकलसूत्रार्थग्रहणधारणसमर्थः स कृष्णभूमिप्रदेशतुल्यः, स च योग्यस्ततः तस्मै दातव्यमिदमध्ययनमिति, आह च भाष्यकृत् "डेवि दोणमेहे न कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इय देयमिच्छित्ति कारिति ॥ १ ॥ "
संप्रति कुटजटांत भावना क्रियते । कुटा-घटाः ते द्विधाः- नवीना जीर्णाश्व, तत्र नवीना नाम ये संप्रत्येवापाकतः समानीताः, जीर्णाः द्विविधा - भाविताः अभाविताथ, भाविता द्विधाः - प्रशस्तद्रव्य भाविता अप्रशस्तद्रव्यभाविताश्च तत्र ये कर्पूरागुरुचंदनादिभिः प्रशस्तैद्रव्यैर्भाविताः ते प्रशस्तद्रव्यभाविताः, ये पुनः पलांडुलशनसुरातैलादिमिर्भावितास्ते अप्रशस्तद्रव्य भाविताः, प्रशस्तद्रव्य भाविता अपि द्विधा - वाम्या अवाम्याथ, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधाः- नवीना जीर्णाश्च, तत्र ये वालभाव एवाद्यापि वर्ततेऽज्ञानिनः संप्रत्यवबोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विधाः- भाविता अभाविताथ । तत्राभाविता ये केनापि दर्शनेन न वासिताः । भाविता द्विधा - कुप्रावचनिकपार्श्वस्यादिभिः संविग्नैश्व, कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा वाम्या अवाम्याश्थ, संविग्नैरपि भाविधाः द्विधाः वाम्या अवाम्याश्च तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्राव
अवचूरिसमलंकृतम्
॥ २८ ॥