SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् दि इति । तत एवमुक्त भ्रष्टप्रतिज्ञमात्मानमवबुध लजावनतकंधराशिरोनयनः पुष्करावा यत्किंचिदाभाष्य स्वस्थानं गतः, एवं दृष्टांतः, अत्रचूरिउपनयस्तु अयं-कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरंतरं यत्नतः पाठ्यमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्यो दिसमलंकृतम् ऽयमिति कृत्वा आचार्यैरुपेक्षितः, तमवबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोभितमहावलपराक्रमोऽत एवागणितव्याख्याविधिपरिश्रमो यौवनिकामदवशतोऽपरिभावितगुणागुणविवेको वक्तु मेवं प्रवृत्तो यथा एनमहं पाठयिष्यामि । पठति च लोकानां पुरतः सुभाषितं, " आचार्यस्यैव तजाड्यं, यत् शिष्यानावबुध्यते । गावो गोपालकेनैव, कुतीर्थनावतारिताः॥१॥" ततस्तं सर्वादरेण पाठयितुं लग्नः, स च मुद्गशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं स्वचेतसि परिणमयति । ततः खिनशक्तिः आचार्यो भ्रष्टप्रतिज्ञमात्मानं जानानो लज्जितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, तत एवं विधाय नेदमध्ययनं दातव्यं यतो न खलु बंध्या गौः शिरःशृंगवदनपृष्टपुच्छोदरादौ सस्नेहं स्पृष्टापि सती दुग्धप्रदायिनी भवति । तथास्वाभाव्यादेव | एषोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येक नावगाहते, ततो न तस्य तावदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्य सूत्रे चापकीर्तिरुपजायते, यथा न सम्यक् कौशलमाचार्यस्य व्याख्यायां, इदं चाध्ययनं न समीचीनं, कथमयमन्यथा नाx वबुध्यते ?, इत्यपि च-तथाविधकुशिष्यपाठने तस्यावबोधाभावात् उत्तरोत्तरसूत्रार्थानवगाहने मूरेः सकलावपि शास्त्रांतरगतौ सूत्रार्थो भ्रंशमाविशतोऽन्येषामपि च पटुश्रोतृणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसंगः, उक्तं च भाष्यकारेण-"आयरिए सुत्तमिय SERECE
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy