________________
अबरि
C46
- 2
6
-1.
___ नन्दिसूत्रम् । पनिपातेन भिद्यमानाः शतशो भेदमुपयांति, किं पुनः स वराको यो मदेकधारोपनिपातमात्रमपि न सहते ?, तदेवमुत्प्रासितो
मुद्गशैलः समुज्ज्वलितकोपानलोऽहंकारपुरस्सरं तमेवमवादीत् , भो नारद ! महर्षे । किमत्र तं प्रति परोक्षे बहुजल्पितेन ?, शृणु मे |
भाषितमेकं, यदि तेन दुरात्मना सप्ताहोरात्रवर्षिणा मे तिलतुषसहस्रांशमात्रमपि भिद्यते, ततोऽहं मुद्गशैल इति नामापि नोद्धK हामि । ततः स पुरुषोऽमूनि मुद्गशैलवचांसि चेतस्यवधार्य कलहोत्थानाय पुष्करावर्तमेघसमीपमुपागमत् । मुद्गशैलवचनानि च
सर्वाण्यपि सोत्कर्ष तस्य पुरतोऽन्ववादीत , स च श्रुत्वा तानि च वचनानि कोपमतीवाशिश्रियत् । स च परुषाणि च वचनानि वस्तुं प्रावर्तिष्ट । यथा-हा दुष्टः स वराकोनात्मज्ञो मामप्येवमधिक्षिपतीति, ततः सर्वादरेण सप्ताहोरात्रान् यावत् निरंतरं मुशलप्रमापधारोपनिपातेन वर्षिनुमयतिष्ट । सप्ताहोरात्रं निरंतरवृष्टया च सकलमपि विश्वंभरामंडलं जलप्लावितमासीत् । तत एवैकार्ण
वकल्पं विश्वमालोक्य चिंतितवान् हतः समूलपातं स बराक इति, ततः प्रतिनिवृत्तो वर्षात , क्रमेण चापसृते जलसंधाते सहर्ष पुष्कपूरावत्तों नारदमेबमवादीन् । भो नारद ! स वराकः संप्रति कामवस्थामुपगतो वर्तते इति सहैव निरीक्ष्यतां, ततः तो सहभूय
मुद्गशैलस्य पार्श्वमगमता, स च मुद्गशैलः पूर्व धूलीधूसरशरीरत्वात् मंदमंदमकाशिष्ट, संग्रति तु तस्या अपि धूलेरपनयनादधिकतरमवमासमानो वर्तते । ततः स चाकचिश्यमादधानो हसन्निव नारदपुष्करावौ समागच्छंतावेवमभाषिष्ट । समागच्छथः खागतं युष्माकं ?, अहो कनकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिख युष्मदर्शनमकांड एव मन्मनो मोददायि संवृत्त
CHANGRECIO
*
॥२६॥