________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
PERIA%AKRRISRAE%%
इह ज्ञानस्य प्ररूपणां वक्ष्ये इत्युक्तं, सा च प्ररूपणा शिष्यानधिकृत्य कर्तव्या, शिष्याश्च द्विधा योग्या अयोग्याश्च, तत्र यो| ग्यानधिकृत्य कर्त्तव्या । नाअयोग्यानिति प्रथमतो गेग्यायोग्यविभागोउपदर्शनार्थ तावदिदमाह
सेलघण कुडंग चालणि परिपूर्णंग हंस महिस मेसेयं मसँग जलुगं विराली जाहंग गो" भेरी आभेरी ॥
'सेलघण' इत्यादि, तत्राधिकृतगाथायां । 'आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धन्तरहस्सं अप्पहार विणा सेइ ॥१॥ प्रथममयोग्य शिष्यविषये मुद्गशैलघनदृष्टान्त उपात्तः, स च काल्पनिक, मुद्गशैलधनयोर्वक्ष्यमाणप्रकारोऽहंकारादिः न संभवति, तयोरचेतनत्वात् , केवलं शिष्यमतिवितानाय तौ तथा कल्पयित्वा दृष्टान्तत्वेनोपात्ती, न चैतदनुपपन्नम्, ततो नानुपपन्नः शैलघनदृष्टान्तः, तद्भावना चेयं-इह क्वचिद्गोष्पदायामरण्यान्यां मुद्गप्रमाणः क्षितिधरो मुद्गशैलाभिधानो वर्तते, इतश्च जंबूद्वीपप्रमाणः पुष्करावर्ताभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनंदी तयोः कलहमाधातुं प्रथमतो मुद्गशैलस्योपकंठमगमत् , गत्वा च तमेवमभाषिष्ट, भो मुद्गशैल ! क्वचिदवसरे महापुरुषसदसि जलेन भेत्तुमअशक्यो मुद्गशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावर्तों न सहते स्म, यथाऽलमनेना| लीकप्रशंसावचनेन, ये हि शिखरसहस्राग्रभागोल्लिखितनभोमंडलतलाः कुलाचलादयः शिखरिणस्तेऽपि मदासारो
HOME%%%AC%ECREGALSRPRॐ
॥२५॥