________________
नन्दिसूत्रम् ॥२४॥
अवचूरि
समलंकृतम्
99%
सुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीण पडिच्छ्यसएहि पणिवइए ॥ ४९॥
सुकुमाल इत्यादि, तेषां दूष्यगणिनां 'पावचनिकानां' प्रवचने-प्रवचनार्थकथने नियुक्ताः प्रावचनिकाः तेषां, तत्कालापेक्षया युगप्रधानानां इत्यर्थः, पादान् लक्षणैः-शंखचक्रादिभिः प्रशस्तान्-श्रेष्ठान , तथा सुकुमारमकर्कश कोमलं-मनोगं तलं येषांतान पुनः किंभूतानित्याह-प्रति इच्छिकशतैः प्रणिपतितान् , इह ये गच्छांतरवासिनः स्वाचार्य पृष्ट्वा गच्छांतरेऽनुयोगश्रवणाय समागच्छंति अनुयोगाचार्येण च प्रतीच्छयतेऽनुमन्यते ते प्रतिइच्छका उच्यन्ते । स्वाचार्यानुज्ञापुरस्सरं अनुयोगाचार्य प्रतिइच्छया चरंति इति प्रातिइच्छकाः इति व्युत्पत्तेः, तेषां शतै : प्रणिपतितान्नमस्कृतान् 'प्रणिपतामि' नमस्करोमि ॥ ४८ ॥ ४९ ।।
तदेवं आवलिकाक्रमेण महापुरुषाणां स्तवं अभिधाय संप्रति सामान्येन श्रुतधरनमस्कारं आहजे अन्ने भगवंते कालियसुयअणुओगिए धीरे।ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छ ॥५०॥
जे अन्ने इत्यादि, येऽन्येऽतीता भाविनश्च भगवंतः-श्रुतरत्ननिकरपूरितत्वात् समग्रैश्वर्यादिमंतः कालिकभुतानुयोगिनो धीरा-विशिष्ट धिया राजमानास्तान 'शिरसा' उत्तमांगेन प्रणम्य 'ज्ञानस्य' आभिनिबोधिकादेः 'प्ररूपणं' प्ररूपणाकारकं अध्ययन वक्ष्ये, क एवं आह?,-उच्यते-दृष्यगणिशिष्यो देववाचकः ।। ५० ।।
॥ थेरावलिया सम्मत्ता॥
%
%
***%%ASARAI
%
॥२४॥