________________
नन्दिसूत्रम्
॥२३॥
अवचूरिसमलंकृतम्
सुमुणिय इत्यादि, सुष्टु-यथावस्थिततया मुणितं-ज्ञातं । "ज्ञोजाणमुणौ" [८-४-७] इति प्राकृतलक्षणात् जानाते: मुणआदेशः, नित्यानित्यं सामर्थ्यात् वस्तु इति गम्यते । येन सुज्ञातं नित्यानित्यं स सुज्ञाज्ञातनित्यानित्यस्तं, यथा वस्तुनो नित्यता तथा धर्मसंग्रहिणीटीकायां सविस्तरं अभिहितं इति न इह भूयः अभिधीयते, माभूत् ग्रंथगौरवं इति कृत्वा, एतेन न्यायवेदिता तस्यावेदिता, | तथा सुष्टु-अतिशयेन ज्ञातं यत् सूत्र अर्थश्च तस्य धारकं, अनेन सदा एव अभ्यस्तमूत्रार्थता तस्य आवेद्यते, तथा संतोऽवस्थिता विद्यमानाभावा:-सद्भावास्तेषां उद्भावना-प्रकाशनं सद्भावोद्भावना तस्यां तथ्यमविसंवादिनं सद्भावोद्भावनातय्य, एतेन तस्य सम्यक् प्ररूपकत्वमुक्तं, इत्थंभूतं भूतदिनाचार्य शिष्यं 'लौहित्य' लोहित्यनामानमहं वंदे ॥ ४६॥ अत्यमहत्थखाणिं सुसमणवखाणकहणनिव्वाणि । पयईइ महरवाणि पयओ पणमामि दुसगणिं ॥४७॥
अत्थ महत्थ इत्यादि, तत्र भाषाभिधेया अर्था, विभाषावा (वार्तिका)भिधेया महार्थास्तेषां अर्थमहार्थानां खानि-इव अर्थमहार्थखानिस्तं, एतेन भाषाविभाषावार्तिकरूपानुयोगविधौ अतिपटीयस्त्वमावेदयति । तथा सुश्रमणानां-विशिष्टमूलोत्तरगुणकलितसंयतानां अपूर्वशास्त्रव्याख्याने पृष्टार्थकथने च निवृतिः-समाधिर्यस्य स तथा तं, तथा प्रकृत्या-स्वभावेन मधुरवाचं-मधुरगिरं तत् शिष्यगतमनाप्रमादादिरूपकोपहेतुसंपत्तौ अपि कोपोदयवशतोऽनिष्ठरभाषणं, तं दृष्यगणिनं 'प्रयतः' प्रयत्नपरः प्रणमामि ॥ ४७॥ तवनियमसचसंजमे विणयजवखंतिमहवरयणं । सील गुणगहियाणं अणुओगे जुगव्वहाणाणं ॥४८॥ १ तत्थकुद्धाण वि आगताण तस्स वाणी वाणि जणेति, किमंग पुण धम्मसवणमागताणं इति चूर्णों दृश्यते।
॥२३॥