SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥२३॥ अवचूरिसमलंकृतम् सुमुणिय इत्यादि, सुष्टु-यथावस्थिततया मुणितं-ज्ञातं । "ज्ञोजाणमुणौ" [८-४-७] इति प्राकृतलक्षणात् जानाते: मुणआदेशः, नित्यानित्यं सामर्थ्यात् वस्तु इति गम्यते । येन सुज्ञातं नित्यानित्यं स सुज्ञाज्ञातनित्यानित्यस्तं, यथा वस्तुनो नित्यता तथा धर्मसंग्रहिणीटीकायां सविस्तरं अभिहितं इति न इह भूयः अभिधीयते, माभूत् ग्रंथगौरवं इति कृत्वा, एतेन न्यायवेदिता तस्यावेदिता, | तथा सुष्टु-अतिशयेन ज्ञातं यत् सूत्र अर्थश्च तस्य धारकं, अनेन सदा एव अभ्यस्तमूत्रार्थता तस्य आवेद्यते, तथा संतोऽवस्थिता विद्यमानाभावा:-सद्भावास्तेषां उद्भावना-प्रकाशनं सद्भावोद्भावना तस्यां तथ्यमविसंवादिनं सद्भावोद्भावनातय्य, एतेन तस्य सम्यक् प्ररूपकत्वमुक्तं, इत्थंभूतं भूतदिनाचार्य शिष्यं 'लौहित्य' लोहित्यनामानमहं वंदे ॥ ४६॥ अत्यमहत्थखाणिं सुसमणवखाणकहणनिव्वाणि । पयईइ महरवाणि पयओ पणमामि दुसगणिं ॥४७॥ अत्थ महत्थ इत्यादि, तत्र भाषाभिधेया अर्था, विभाषावा (वार्तिका)भिधेया महार्थास्तेषां अर्थमहार्थानां खानि-इव अर्थमहार्थखानिस्तं, एतेन भाषाविभाषावार्तिकरूपानुयोगविधौ अतिपटीयस्त्वमावेदयति । तथा सुश्रमणानां-विशिष्टमूलोत्तरगुणकलितसंयतानां अपूर्वशास्त्रव्याख्याने पृष्टार्थकथने च निवृतिः-समाधिर्यस्य स तथा तं, तथा प्रकृत्या-स्वभावेन मधुरवाचं-मधुरगिरं तत् शिष्यगतमनाप्रमादादिरूपकोपहेतुसंपत्तौ अपि कोपोदयवशतोऽनिष्ठरभाषणं, तं दृष्यगणिनं 'प्रयतः' प्रयत्नपरः प्रणमामि ॥ ४७॥ तवनियमसचसंजमे विणयजवखंतिमहवरयणं । सील गुणगहियाणं अणुओगे जुगव्वहाणाणं ॥४८॥ १ तत्थकुद्धाण वि आगताण तस्स वाणी वाणि जणेति, किमंग पुण धम्मसवणमागताणं इति चूर्णों दृश्यते। ॥२३॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy