________________
नन्दिसूत्रम्। ॥२०॥
अवचरि
समलंकतम
RSRAE%
निष्क्रान्तानचलपुरे गृहीतदीक्षान' 'कालिकश्रुतानुयोगिकान्' कालिकश्रुतस्यानुयोगे-व्याख्याने नियुक्ताः कालिकचतानुयोगिकास्तान् , अथवा कालिकश्रुतानुयोग एषां विद्यते इति कालिकश्रुतानुयोगिनस्ततः स्वार्थिककप्रत्ययविधानात् कालिकश्रुतानुयोगिकाः तान् , धिया राजते इति धीरास्तान् , तत्कालापेक्षया उत्तम-प्रधानं वाचकपदं प्राप्तान् ॥ ३६॥ जेसिं इमो अणुओगो पयरइ अन्जवि अड्डभरहम्मि । बहुणयरनिग्गयजसे तं वंदे खदिलायरिए ॥ ३७॥
जेसिं इत्यादि, येषां अयं-श्रवणप्रत्यक्षत उपलम्यमानोऽनुयोगोऽद्यापि अर्धभरते वैताढ्यादाक् 'प्रचरति ' व्याप्रियते । तान् स्कंदिलाचार्यान् सिंहवाचकमरिशिष्यान बहुषु नगरेषु निर्गतं-प्रसृतं यशो येषां ते बहुनगरनिर्यातयशसस्तान् वंदे ॥३७ ।। ततो हिमवंतमहंतविक्रमे घिइपरकममणंते। सज्झायमणतधरे हिमवंते वंदिमो सिरसा ॥ ३८॥
ततो इत्यादि, 'ततः ' स्कंदिलाचार्यानंतरं तत्शिष्यान् हिमवतो-हिमवत्नामकान् , 'हिमवत्महाविक्रमान्' हिमवदिव महान् विक्रमो-विहारक्रमेण प्रभतक्षेत्रव्याप्तिरूपो येषां ते तथा तान् । 'बिइपरकममणते' इति अनंतधृतिपराक्रमान् , प्राकृतशेल्या च अनंतशब्दस्यान्यथा उपन्यासः सूत्रे, अनंतो-अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधास्तान् । तथा'सज्झायमणंतधरैत्ति अत्रापि प्राकृतशैल्यानंतशब्दस्य परनिपातो मकारस्तु अलाक्षणिकः, तदेवं तात्त्विको निर्देशः 'अनन्तस्वाध्यायधरान् ' तत्रानन्तगमपर्यायात्मकत्वात् अनन्तं सूत्रं तस्य स्वाध्यायं धरंति इति धराः अनंतस्वाध्यायधरास्तान् ॥ ३८ ॥
कालियसुयअणुओगस्स धारण धारए य पुवाणं । हिमवंतखमासमणे बन्दे नागज्जुणायरिए ॥ ३९॥
*************
*******
॥२०॥
-%