________________
नन्दिसूत्रम् || सर्वनयानां सर्वभंगविकल्पानां प्रदर्शकानि, आचार्य आह-त्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा-'ऋजुत्रं' इत्यादि, एतानि अपि अवचूरि
संप्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसंप्रदायतो वा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभिद्यमानानि अष्टाशीति समलंकृत ॥२०॥
संख्यानि भवंति । कथमिति चेत् ?, अत आह-'इच्चेइयाई बावीसं सुतं' इत्यादि । इह यो नाम नयः सूत्रं छेदेन छिन्नं एव अभिप्रेतेन द्वितीयेन सूत्रेण सह संबंधयति । यथा 'धम्मो मंगलमुकिट्ठ' इति श्लोकः, तथा हि-अयं श्लोकः छिन्नछेदनयमतेन व्याख्यायमानो न द्वितीयादीन् श्लोकान् अपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयं अत्राभिप्रायः-तथा कथंचनापि अमुं श्लोकं पूर्वसूरयः च्छिन्नछेदनयमतेन व्याख्यांति स्म यथा न मनाग् अपि द्वितीयादिश्लोकानां अपेक्षा भवति । द्वितीयादीनपि श्लोकान् तथा व्याख्यांति स्म यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राणि अपि यन्नयाभिप्रायेण परस्परं निरपेक्षाणि व्याख्याति स्म स छिन्नछेदनयः, छिन्नोद्विधा कृतः पृथक् कृतः छेदः-पर्यंतो येन स छिन्नच्छेदः प्रत्येकं कल्पितपर्यंत इत्यर्थः । स चासौ नयश्च छिन्नच्छेदनयः, इति एतानि द्वाविंशतिः सूत्राणि स्वसूत्रसमयपरिपाट्या-खसमयवक्तव्यता अधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिन्नछेदनयिकानि, अत्र 'अतो अनेकखरादि' ति मत्वर्थीय इक् प्रत्ययः, ततोऽयमर्थः-छिन्नछेदनयचंति द्रष्टव्यानि, तथा इत्येतानि द्वाविंशतिः सूत्राणि आजीविक- 12 सूत्रपरिपाट्यां-गोशालप्रवर्तिताजीविकपाखंडिमतेन सूत्रपरिपाट्यां विवक्षितायां अच्छिन्नच्छेदनयिकानि, इयमत्र भावना-अच्छिन्नच्छेदनयो नाम यः सूत्रं सूत्रांतरेण सह अच्छिन्नं अर्थतः संबंधं अभिप्रेति, यथा 'धम्मो मंगलमुकिई' इति श्लोकं, तथा हि-अयं श्लोकः ॥२०॥
अच्छिन्नछेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकान् अपेक्षते द्वितीयादयोऽपि श्लोका एनं श्लोकं, एवमेतानि अपि द्वाविंशतिः Bा सूत्राणि अक्षररचना अधिकृत्य परस्परं विभक्तानि अपि स्थितानि अच्छिन्नच्छेदनयमतेनऽर्थसंबंध अपेक्ष्य सापेक्षाणि वर्तते ।
25624