________________
नन्दिसूत्रम् । ॥ १८ ॥
पादयति इति भण एवं भणकः ' [ स्वार्थे] [वा] कथ' इति प्राकृतलक्षणसूत्रात् खार्थे कः प्रत्ययस्तं । तथा 'कारक' कालिकादि सूत्रोक्तमेव उपधेः प्रत्युपेक्षणादिरूपं क्रियाकलापं करोति कारयति वा कारकस्तं । तथा धर्म्मध्यानं ध्यायति इति ध्याता तं ध्यातारं, प्रभावकं ज्ञानदर्शनगुणानां ' एकग्रहणे तज्जातीयग्रहणं इति न्यायात् चरणगुणानां अपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा श्रुतसागरपारगम् ॥ ३० ॥
वंदामि अज्जधम्मं तत्तो वन्दे य भहगुत्तं च । तत्तोय अज्जवहरं तवनियमगुणेहिं वइरसमं ॥ ३१ ॥ बन्दामीति, आर्यधर्म्मवाचकं ततो भद्रगुप्तं तत आर्य वज्रं च बंदी तपोनियमगुणैर्वज्रतुल्यमभेद्यत्वात् ॥ ३१ ॥ वंदामि अजरक्खियं खमणे रविवचारिते सव्वस्स । रयणकरडंगभूआ अणुओग रक्खिओ जेहिं ॥ ३२ ॥ वन्दामीति । इत्यादि सुगमम् ॥ ३२ ॥
नामि दंसणंमि तवविणए निञ्चकालमुज्जुत्तं । अजं नन्दिलखमणं सिरसा वंदे पसन्नमणं ॥ ३३ ॥ नाणमित्यादि, आर्यमंगोः अपि शिष्यं आर्यनंदिलखमणं प्रसन्नमनसमरक्तदृष्टान्तःकरणं शिरसा वंदे कथंभूतमित्याह - ' ज्ञाने' श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, च शब्दाचारित्रे तपसि यथायोगं अनशनादिरूपे विनये - ज्ञानविनयादिरूपे ' नित्यकालं ' सर्वकालं ' उद्युक्तं ' अप्रमादिनम् ॥ ३३ ॥
अवचूरिसमलंकृतम्
॥ १८ ॥