________________
नन्दि सूत्रम् ।
॥ १७ ॥
हारिय इत्यादि, बलिस्हस्यापि शिष्यं हारीत [स] गोत्रं स्वातिं स्वातिनामानं चः समुच्चये, वन्दे, तथा स्वातिशिष्यं 'हारीतं' हारीतगोत्रं, चः समुच्चये, स च मित्रक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामाचार्य च वन्दे । तथा श्यामाचार्यशिष्यं कौशिक[स] गोत्रं, ' शांडिल्यं' शांडिल्यनामानं वन्दे । किंभूतमित्याह - 'आर्यजीतधरं ' आरात् - सर्वहेयधर्मेभ्योऽवक् यातं आर्य 'जीतं ' इति सूत्रमुच्यते । जीतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यार्याः, मर्यादाकारणं च सूत्रं उच्यते । तथा 'धृञ् धारणे' धियते धारयति इति धरः, 'लिहादिभ्य ' इत्यच् प्रत्ययः । आर्यजीतस्य घर आर्यजीतधरः तं, अन्ये तु व्याचक्षते - शांडिल्यस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिः आसीत् तं वंदे इति ॥ २८ ॥
तिसमुखाकितिं दीवसमुद्देसु गहियपेयालं । वन्दे अज्जसमुहं अक्खुभियसमुहगंभिरं ।। २९ ।।
तिसमुद्द इत्यादि, शांडिल्यशिष्यं - आर्यसमुद्रनामानं वंदे, कथंभूतं इत्याह- 'त्रिसमुद्रख्यातकीर्ति ' पूर्वदक्षिणापरदिग्विभागव्यवस्थितत्वात् पूर्वापरदक्षिणास्त्रयः समुद्रास्त्रिसमुद्रं, उत्तरतस्तु हिमवान् वैताढ्यो वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्य असौ त्रिसमुद्रख्यातकीर्तिस्तं तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तं, अतिशयेन द्वीपसागरप्रज्ञप्तिविज्ञाय इति भावः, तथा अक्षुभितसमुद्रवद्गम्भीरम् ।। २९ ।।
ari कर झरगं पभावगं नाणदंसणगुणाणं । वंदामि अब मंगुं सुयसागरपारगं धीरं ॥ ३० ॥ भगमित्यादि, आर्य समुद्रस्यापि शिष्यं आर्यमंगुं वंदे, किंभूतमित्याह - ' भणकं ' कालिकादिमुत्रार्थमनवरतं भणति - प्रति
अवचूरिसमलंकृतम्
॥ १७॥