________________
***
***
नन्दिसूत्रम् 2 संभूतविजयो माढरगोत्रः, भद्रबाहुश्च प्राचीनगोत्रः, तो द्वौ अपि नमस्कुरुते । 'संभूतं चैव माढरं, भद्दबाहुं च पाइन्न'
अवचूरीसा इति, तत्र संभूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत् , तं आह-स्थूलभद्रं, चः सम्मुच्चये, गौतम गोतमस्यापत्यं
18 मलकृतम्गौतमः 'ऋषिवृष्ण्यंधककुरुभ्य' (६-१-६१) इति अणप्रत्ययः, तं वंदे इति क्रियायोगः ॥ २६ ॥
स्थूलभद्रस्यापि च द्वी प्रधानशिष्या वभवतुः। तद्यथा-एलापत्यं गोत्रो महागिरिर्वशिष्ठगोत्रः सुहस्ती [च तो वो अपि प्रणिनंसुराह
एलावच्चसगोत्तं वदामि महोगिरि सुहत्यिं च । तत्तो कोसिअगोत्तं बद्दलस्स सरिध्वयं वन्दे ॥२७॥
एलावच्चेत्यादि, एलापत्येन सह वर्तते यः स एलापत्य [स] गोत्रस्तं वंदे महागिरि, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र सुहस्तिन आरभ्य सुस्थितसुप्रतिबद्धादिक्रमेण आवलिका विनिर्गता, सा यथा दशाश्रुतस्कंधे तथैव द्रष्टव्या, न तया इहाधिकारः। तस्यामावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्य अभावात् , तत इह महागिर्यावलिकाधिकारः, तत्र महागिरेः द्वौ प्रधानशिष्यावभूतां । तद्यथा-बहुलो बलिस्सहश्च, तौ च द्वौ अपि यमलभ्रातरौ कौशिकगोत्री च, तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत् , ततस्तं एव निनंसुराह-'ततो' महागिरेः अनन्तरं कौशिकगोत्रं बहुलस्य 'सदृशवयसं' समानवयसं, द्वयोः अपि यमलभ्रातृत्वात् , 'वंदे' नमस्करोमि ॥ २७ ॥
हारियगुत्त साई च वदामि हारियं च मामजं । चन्दे कोसिआगोसं संडिलं अजजीयधरं ॥२८॥
****