________________
नन्दिसूत्रम्
तस्य नाशन, ततः स्वार्थिकः कप्रत्ययः, कुसमयमदनाशनक, कसमयमदनाशनं च कुसमयानां कथाक्तसवभावदेशकत्वायोगात् । इत्यंभूतं जिनेंद्रवरचीरशासनकं जयति ॥ २४ ॥
अवचूरीससंप्रति यैः इदं अविच्छेदेन स्थविरैः क्रमेण इदं युगीनजन्तूनां उपकारार्थ आनीतं, तेषां आवलिका अभिधित्सुराह- मलकृतम्।
सुहम्म अग्गिवेसाणं जम्बुनामं च कासवं पभैव । कच्चायणं वंदे वच्छं सिर्भवं नहा ॥ २५ ॥
सुहम्मं इत्यादि, इह स्थविरावलिका सुधर्मस्वामिनः प्रवृत्ता, शेषगणधराणां संतानप्रवृत्तेरभावात् , ततः तमेव आदौ कृत्वा तां अभिधत्ते । सुधर्म-सुधर्मस्वामिनं पत्रमगणधरं, अग्निवेसाग इति, अग्निवेशस्थापत्यं वृद्धौ आग्निवेश्यः, 'गर्गादेः यत्र || (६-१-४२) इति यप्रत्ययः, तस्यापि अपत्यं आग्निवेश्यायनः, तं आग्निवेश्यायनं वन्दे इति क्रियाभिसम्बन्धः॥१॥, तथा तच्छिम्या जम्बूनामानं, च समुरुचये, कश्यपस्यापत्यं काश्यपः,बिदादेवृद्ध (६-१-४१) इत्या प्रत्ययः, तं काश्यपगोत्रं वंदे ॥२॥, तस्यापि जम्बू- 15 स्वामिनः शिष्यं प्रभवनामानं कात्यायनं, कतस्य अपत्य कात्यः, गर्गादेर्या (६-१-४२) इति यजप्रत्ययः तस्यापि अपत्यं कात्यायनस्तं ५ कात्यायनं-कात्यायनगोत्रं वंदे ॥३॥, तच्छिष्यं शय्यंभवं वात्स्यं. तस्यापत्यं वात्म्यः, गर्गादेः यज (६-१-४२) इति यत्प्रत्ययः तं वन्दे ॥४॥, तथा इति समुच्चये ॥ २५ ।।
जसभेर तुंगियं वन्दे संभूतं चेव माढरं । भद्दयाहुं च पाइन्नं थूलभदं च गोयमं ॥ २६ ॥ जस इत्यादि, शय्यंभव शिष्यं यशोभद्रं तुंगिकगणं व्याघ्रापत्यगोत्रं बंद । तस्य दी प्रधानशिष्यो अभूता, तद्यथा