________________
नन्दिसूत्रम्
॥ १९५॥
से किं तं विप्पज्जहणसेणिआपरिकम्मे ? विप्पजहणसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा - पाढोआमासर्पयाई, केउभूअं, रासिंबद्धं, एगगुणं दुगुणं, तिगुणं, केउँ भूअं, पर्डिंग्गहो, संसारपडिंग्ग हो, नंदावत्तं, विप्पज्जहणावत्तं, से तं विप्पज्जहणसेणिआपरिकम्मे ॥ ६ ॥
से किं तं चुआचुअसेणिआपरिकम्मे ? चुआचुअसेणिआपरिकम्मे एक्कारस्सविहे पन्नत्ते, तं जहा - पाढोआमासयाई, केउ भूअं, रासिद्धं, एगैगुणं, दुगुणं, तिगुणं, केउ भूअं, पडिग्गहो, संसार पडिग्गहो, नंदावंत, चुआचुअवत्तं, से तं चुआचुअसेणिआपरिकम्मे ॥ ७ ॥
अथ कोऽयं दृष्टिवादः ?, दृष्टयो- दर्शनानि वदनं वादः दृष्टीनां वादो यत्र स दृष्टिवादः । अथवा पतनं पातो दृष्टीनां पातो यत्र दृष्टिपातः तथाहि तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः- दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिपाते दृष्टिवादे वा 'णं' इति वाक्यालंकारे सर्वभावप्ररूपणा आख्यायते । सर्व इदं प्रायो व्यवच्छिन्नं तथापि लेशतो यथागतसंप्रदायं किंचिद् व्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पंचविधः प्रज्ञप्तः, तद्यथा - परिकर्म्मः १ सूत्राणि २ पूर्वगतं ३ अनुयोगः ४ चूलिकाः ५ । तत्र परिकर्म्म नाम योग्यतापादनं तत् हेतुशास्त्रं अपि परिकर्म्म, किमुक्तं भवति ? - सूत्र पूर्वगतानुयोगसूत्रार्थग्रहणयोग्यतासंपादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे संकलनादीनि आद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यतासंपादन समर्थानि, तथाहि यथा गणितशास्त्रे गणितशास्त्रगताद्यषोडशपरिकर्म्मगृहीतसूत्रार्थः शेपगणितशास्त्रग्रहणे योग्यो भवति, नान्यथा तथा गृहीतविवक्षितपरिकर्म्मसूत्रार्थः सन् शेषसूत्रादिरूपदृष्टिवादश्रुतग्रहणयोग्यो भवति, न इतरथा,
अवचूरिसमलंकृतम्
।।१९५॥