________________
नन्दिसूत्रम्
अवचूरि
समलंकृतम्
१९६॥
.
छचउकनइआई सत्ततेरासियाई । से तं परिकम्मे ॥१॥
तच्च परिकर्मसिद्धश्रेणिकापरिकर्मादि मूलभेदापेक्षया सप्तविधं, मातृकापदाद्युत्तरभेदापेक्षया अशीतिविध, तच समू- लोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसंप्रदायतो वा वाच्यं, एतेपां च सिद्धश्रेणिकापरिकादीनां सप्तानां अपि परिकाणां । आद्यानि षट्परिकर्माणि खसमयवक्तव्यतानुगतानि खसिद्धांतप्रकाशकानि इत्यर्थः । ये तु गोशालप्रवर्चिता आजीविका पाखंडिनः तत्मते च्युताच्युतश्रेणिका परिकर्मसहितानि सप्तापि परिकर्माणि प्रज्ञाप्यते । संप्रति एतेषु एव परिकर्मसु नयचिंता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा-सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स संग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहार, शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते। तत एवं चत्वार एव नयाः, एतैश्चतुर्भिः नयः आयानि पट्परिकर्माणि स्वसमयवक्तव्यतया परिचिंत्यते । तथा चाह मूत्रकृत्-छ 'चउक्कनइयाई ति आद्यानि षट् परिकर्माणि चतुर्नयकानि| चतुर्णयोपेतानि, तथा त एव गोशालकप्रवर्तिता आजीविकाः पाखंडिनः त्रैराशिका उच्यते । कस्मादिति चेदुच्यते ?, इह ते सर्व वस्तु व्यात्मकं इच्छंति, तत्यथा जीवो अजीवो जीवाजीवश्च, लोकाः अलोको लोकालोकश्च, सदसत् सदसत्, नयचिंतायां अपि त्रिविधं नयं इच्छंति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकं उभयास्तिकं च, तत् त्रिभिः राशिभिः चरंति इति त्रैराशिकाः तत्मतेन सप्तापि परिकर्माणि उच्यते, तथा चाह-सूत्रकृत्-'सत्ततेरासीया' इति, सप्त परिकर्माणि त्रैराशिकानि त्रैराशिकमतानुयायीनि, एतत् उक्तं भवति पूर्व सूरयो नयचिंतायां त्रैराशिकमतं अवलंबमानाः सप्तापि परिकर्माणि त्रिविधयापि नयचिंतया चिंतयंति स्म इति, तदेतत् परिकर्म ।
से किं तं सुत्ताई ? सुत्ताई बावीसं पन्नत्ताई, तंजहा-उज्जुसुयं, परिणयापरिणयं, बहुभंगिअं, विजय
॥१९६॥
GER