________________
नन्दिसूत्रम्
।।१८१ ।।
द्वादश विकल्पा जीवपदे लब्धाः, एवं अजीवादिषु अपि षट्सु पदार्थेषु प्रत्येकं द्वादश द्वादश विकल्पा लभ्यते । ततो द्वादशभिः सप्तगुणिताः चतुरशीतिर्भवंति अक्रियावादिनां विकल्पाः ॥ तथा कुत्सितं ज्ञानं अज्ञानं तदेषां अस्ति इति अज्ञानिकाः, 'अतोऽनेकस्वरात् ' इति मत्वर्थीय इकप्रत्ययः, अथवा अज्ञानेन चरंति इति अज्ञानिका:- असंचित्य कृतबंधवैफल्यादिप्रतिपत्तिलक्षणाः, तथा हि-एते एवमाहुः - न ज्ञानं श्रेयः तस्मिन् सति परस्परं विवादयोगतः चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः । तथाहि - केनचित् पुरुषेण अन्यथा देशिते सति वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातमानसः तस्य उपरि क्लुपचित्तस्तेन सह विवादं आरभते, विवादे च क्रियमाणे तीव्रतीव्रतरचित्तकालुष्यभावतोऽहंकारतश्च प्रभूतप्रभूततराः अशुभकर्म्मबंधसंभवः, तस्मात् च दीर्घदीर्घतरसंसारः, तथा च उक्तं - " अत्रेण अन्नहा देसियंमि भावंमि नाणगव्वेणकुणइ विवायं कलुसियचित्तो तत्तो य से बंधो ॥ १ ॥" इत्यादि, येऽपि च विनयवादिनो विनयप्रतिपत्तिलक्षणाः तेऽपि मोहात् मुक्तिपथपरिभ्रष्टाः वेदितव्याः । तथा हि-विनयो नाम मुक्तिअंगं यो मुक्तिपथानुकूलो न शेषः, मुक्तिपथथ ज्ञानदर्शनचारित्राणि, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति वचनात् ततो ज्ञानादीनां ज्ञानादिआधारणां च बहुश्रुतादिपुरुषाणां यो विनयो ज्ञानादिबहुमानप्रतिपत्तिलक्षणः स ज्ञानादिसंपत् वृद्धिहेतुत्वेन परंपरया मुक्तिअंग उपजायते । यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुर्यतः सुरनृपत्यादिषु विनयो विधीयमानः सुरनृपत्यादिभाव विषयं बहुमानं आपादयति । अन्यथा विनयकरणाप्रवृत्तेः, सुरनृपत्यादिभावश्च भोगप्रधानः, ततस्तत् बहुमाने भोगबहुमानं एवं कृतं परमार्थतो भवति इति दीर्घसंसारपथप्रवृत्तिः येऽपि च यतिविनयवादिनः तेऽपि यदि साक्षात् विनयमेव केवलं मुक्तिअंगं इच्छंति तर्हि तेऽपि असमीचीनवादिनो वेदितव्याः । ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षात् मुक्तिअंगत्वाभावात्, न खलु ज्ञानदर्शन चारित्ररहिताः
अवचूरिसमलंकृतम्
॥१८२॥