SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥९८०॥ विंशतिः विकल्पा लभ्यते, ततो विंशतिः नवगुणिताः शतं अशीत्युत्तरं, क्रियावादिनां भवति । तथा न कस्यचित् प्रतिक्षणं अनवस्थितस्य पदार्थस्य क्रिया संभवति उत्पन्यनंतरं एव विनाशात् इत्येवं ये वदंति ते अक्रियावादिनः तथा च आहुः एके"क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया ? भूतिर्येषां क्रिया सैव, कारणं स एव उच्यते ॥ १ ॥ एते च आत्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यवज्र्जितशेषजीवादिपदार्थसप्तकन्यासः, तथैव च जीवादिसप्तकस्य अधः प्रत्येकं खपरविकल्पोपादानं, असत्वात् आत्मनो नित्यानित्यविकल्पौ न स्तः, कालादीनां च पंचानां अधस्तात् षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽपि अक्रियावादिन एव, न केचित् अपि क्रियावादिनः ततः प्राग् यदृच्छा नोपन्यस्ता, तत एवं विकल्पाभिलाषः - नास्ति जीवः स्वतः कालत इति एको विकल्पः एवं ईश्वरादिभिः अपि यदृच्छापर्यंतैः, सर्वेऽपि मिलिताः षड् विकल्पाः, अमीषां च विकल्पानां अर्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः ? उच्यते, इह ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावं इच्छंति किंतु यदृच्छया ते यदृच्छावादिनः तथा च ते एवं आहुः - " न खलु प्रतिनियतो वस्तूनां कार्यकारणभावस्तथा प्रमाणेन अग्रहणात्, तथा हि शालूकादपि जायते शालूको गोमयात् अपि वह्नेः अपि वह्निः उपजायते अरणिकाष्टात् अपि धूमादपि जायते धूमोऽग्नीन्धनसंपर्कात् अपि कंदात् अपि जायते कदली बीजात् अपि वटादयो वीजादपि जायंते शाखैकदेशात् अपि ततो न प्रतिनियतः क्वचिदपि कारणकार्यभाव इति यदृच्छातः क्वचित् किंचित् भवति इति प्रतिपत्तव्यं, न खलु अन्यथा च वस्तुसद्भावं पश्यंतोऽन्यथा आत्मानं प्रेक्षावतः परिक्लेशयति इति । यथा च स्वतः षड् विकल्पा लब्धाः तथा नास्ति परतः कालत इत्येवमपि षड् विकल्पा लभ्यंते, सर्वेऽपि मिलिता अवचूरिसमलंकृतम् 1186011
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy