SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥ १७९ ॥ | ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्रभ्रमेव वा ॥ १ ॥" इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम ये 'पुरुष एवेदं सर्व' इत्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां ते हि एवं आहुः नियतिः नाम' तच्चान्तरं अस्ति यद् वशादेते भावाः सर्वेऽपि नियतेन एव रूपेण प्रादुर्भावमनुवते, नान्यथा, तथा हि यत् यदा यदा यतो भवति तत्तदा तत एव नियतेन एव रूपेण भवदुपलभ्यते । अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपावस्था च न भवेत्, नियामकाभावात् । तत एवं कार्यनैयत्यतः प्रतीयमानामेनां नियति को नाम प्रमाणपथकुशलो बाधितुं क्षमते ? मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसंगः। तथा च उक्तं- "नियतेनैव रूपेण, सर्वे भावा भवंति यत् । ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः ॥ १ ॥ यत् यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एनां बाधितुं क्षमः ? ॥ २ ॥” पंचमो विकल्पः स्वभाववादिनां ते हि स्वभाववादिन एवं आहु:-इह सर्वे भावाः स्वभाववशात् उपजायते । तथा हि-मृदः कुंभो भवति न पटादि, तन्तुभ्योऽपि पट उपजायते न कुम्भादि, एतच्च प्रतिनियतं न तथा स्वभावतानंतरेण घटा कोटीसंटंकमाटीकते, तस्मात्सकलं इदं स्वभावकृतं अवसेयं । अपि चास्तामन्यत्कार्यजातं इह मुद्द्रपक्तिः अपि न स्वभावमंतरेण भवितुं अर्हति तथा हि-स्थालींधनकालादिसामग्रीभावेऽपि न कांकटुकमुद्गानां पक्तिः उपलभ्यते । तस्मात् यद्यत् भावे भवति [ यदभावे च न भवति ] तत्तदन्वयव्यतिरेकानुविधायि तत् कृतं इति स्वभावकृता मुद्द्रपक्तिः अप्येष्टव्याः, ततः सकलं एव इदं वस्तुजातं स्वभावहेतुकं अवसेयं इति । ततः एवं स्वतः इति पदेन लब्धाः पंच विकल्पाः, एवं परत इति अनेनापि पंच लभ्यते, परत इति परेभ्यो व्यावृत्तेन रूपेण विद्यते न खलु अयं आत्मा इत्यर्थः । एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनाऽपि दश, सर्वे मिलिता विंशतिः, एते च जीवपदार्थेन लब्धाः, एवं अजीवादिषु अपि अष्टसु पदार्थेषु प्रत्येकं अवचूरिसमलंकृतम् ॥ १७९ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy