________________
नन्दिसूत्रम्
॥१७८॥
मंतव्याः ये कालकृतं एव सर्वं जगत् मन्यते । तथा च ते आहुः न कालमंतरेण चंपकाशोकसहकारादिवनस्पतिकुसुमोद्गमफला बंधादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधान वर्षादयो वा ऋतुविभागसंपादिता बालकुमारयौवनपलितागमादयो वावस्थाविशेषा घटते, प्रतिनियतकालविभाग एव तेषां उपलभ्यमानत्वात् । अन्यथा सर्वमव्यवस्थया भवेत्, न चैतदृष्टमिष्टं वा, अपि च- मुद्द्रपक्तिः अपि न कालमंतरेण लोके भवंती दृश्यते। किंतु कालक्रमेण अन्यथा स्थालींधनादिसामग्री संपर्क संभवे प्रथमसमयेऽपि तस्याभावप्रसंगो न च भवति, तस्मात् यत्कृतकं तत्सर्वं कालकृतं इति । तथा च उक्तं "न कालव्यतिरेकेण, गर्भवालशुभादिकं । यत्किचिजायते लोके, तदसौ कारणं किल ॥ १ ॥ किं च कालादृते नैव मुद्रपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ॥ २ ॥ कालाभावे च गर्भादि, सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ॥ ३ ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागति, कालो हि दुरतिक्रमः ॥ ४ ॥" अत्र 'परेष्टहेतुसद्भावमात्रादि ति पराभिमतवनिता पुरुषसंयोगादिमात्ररूपहेतु सद्भावमात्रादेव ' तदुद्भवादिति गर्भादि उद्भवप्रसंगात्, तथा कालः पचति परिपाकं नयति परिणतिं नयति, 'भूतानि' पृथिव्यादीनि तथा कालः संहरति प्रजाः -पूर्व पर्यायान् प्रच्याव्य पर्यायांतरेण प्रजाः लोकान् स्थापयति । तथा कालः सुप्तेषु जनेषु जागर्त्ति, काल एव तं तं सुप्तं जनमापदो रक्षति इति भावः तस्मात् हि स्फुटं दुरतिक्रमोऽपाकर्तुमशक्यः काल इति । उक्तेन एव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यः । नवरं कालवादिनः इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा - अस्ति जीवः स्वतो नित्यः ईश्वरतः, ईश्वरवादिनश्थ सर्व जगत् ईश्वरकृतं मन्यंते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्यरूपं चतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकं इति । तदुक्तं - "ज्ञानमप्रतिधं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्म्मश्र, सहसिद्धं चतुष्टयं ॥ १ ॥ " अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
अवचूरिसमलंकृतम्
1120611